________________
२८७
संस्तारकादिदानविषये श्रीचन्दनवणिक्कथा तदेलापुरसंज्ञस्य पुरस्यास्य नरोत्तम! । राज्यश्रियमुपादाय कुरु मे सफलं वचः ॥ ८८॥ इमां काञ्चनमालां च, पाणिपीडनकर्मणा । सधर्मचारिणीभावं नीत्वा नन्दय मे मनः ॥ ८९ ॥ इति श्रुत्वा कुमारोऽपि मनस्येवं व्यभावयत् । चक्रेश्वर्या यदुक्तं मे सप्तमं दिनमद्य तत् ॥ ९० ॥ इति ध्यात्वा वचस्तस्य स्वीचक्रे नृपनन्दनः । रक्षोऽपि किंकरीभावं भेजे तद्भाग्ययोगतः ॥ ९१ ।। कृत्वा तस्य कुमारस्य, रक्षो राज्याभिषेचनम् । उद्वसं तत्पुरं सर्वं चकार जनसंकुलम् ॥ ९२ ॥ चतुरङ्गचमूचक्रं परचक्रविजित्वरम् । तदने प्रकटीकृत्य स्वयं रक्षस्तिरोदधे ॥ ९३॥ सर्वेऽप्यमात्यसामन्ता रत्नचूडमहीपतेः। बिभरामासुराज्ञां ते, शीर्षे शेषामिवानिशम् ॥ ९४ ॥ पट्टराज्ञीपदे तेनास्थापि काञ्चनमालिका । चिन्तामणिप्रभावाच्च तस्य कोशा भृता धनैः ॥ ९५ ।। ततो विजित्य दुर्दान्तसीमान्तजगतीपतीन् । आसमुद्रं महीपीठमेकच्छत्रं चकार स ॥ ९६॥ पितुः स्मृत्वान्यदा वाक्यं सामन्तैरमितैर्युतः । रत्नचूडो नृपोऽचालीद्रत्नप्रभनृपं प्रति ॥ ९७॥ तस्य प्रस्थितसैन्यौघोद्भूतधूलिकदम्बकैः ।। व्योमापगापि संजज्ञे प्रोद्यज्जम्बालसंकुला ॥ ९८॥ चतुरङ्गचमूचक्रभारभुग्नफणागणे । फणीन्द्रे यत्प्रयाणेऽलमचलापि चलाजनि ॥ ९९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org