________________
२८६
श्रीदानोपदेशमाला (गा. ५५)
कुर्वन् पटूनि चाटूनि मासमात्रं कथंचन । सोऽत्यवाहि तया चित्ते स्मरन्त्या ज्ञानिनो वचः ॥ ७६ ॥ साहं सुभग! भूजानिजनिः काञ्चनमालिका । रत्नचूडं पतीयन्तीयन्तं कालमवास्थिषि ॥ ७७॥ क्वाहं क्व च स मे भर्ता रत्नप्रभनृपाङ्गभूः । अतो दुःखातुराया मे मरणं शरणं किल ॥ ७८ ॥ तत्कुमार! मयावादि निजखेदस्य कारणम् । त्वत्पुरस्ताद्यतः सन्तः परदुःखेषु दुःखिताः ॥ ७९ ॥ मद्विवाहस्य सामग्रीं कर्तुं यावद् गतोऽस्ति सः । तावत्प्रयाहि पुंरत्न! नो चेत्त्वां प्रहणिष्यति ॥ ८०॥ तस्यामिति ब्रुवाणायां तरसा राक्षसेश्वरः । समागत्य कुमारं तं दृष्ट्वा चैवमतर्जयत् ॥ ८१॥ रे रे! पाप! दुराचार! कृतान्तस्यातिथीभवन्! । कुतः सुरासुरागम्यं ममान्तःपुरमागमः ॥ ८२॥ इत्याकर्ण्य कुमारोऽपि कोपाटोपारुणेक्षणः । खड्गं चक्रेश्वरीदत्तं करे कृत्वैवमब्रवीत् ॥ ८३ ॥ अरे! क्रव्याद! खेट! त्वमरिदावदवानलम् । रत्नप्रभसुतं रत्नचूडं मां नावगच्छसि ॥ ८४ ॥ खड्गाखड्गि तयोर्युद्धं वृत्तं विश्वभयङ्करम् । यद्दर्शनादजायन्त विस्मिता अमरा अपि ॥ ८५ ॥ अहो! पुंसोऽस्य शौण्डीर्यमहार्यममरैरपि । इति ध्यायन्नयं चित्ते राक्षसो विस्मयं ययौ ॥ ८६॥ स कुमारमवादीच्च कुमार! तव विक्रमात् । सुप्रसन्नं मनो मेऽभूत् कवित्वमिव सत्कवेः ॥ ८७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org