________________
संस्तारकादिदानविषये श्रीचन्दनवणिक्कथा
२८५ इत्युक्त्वा विरतेऽमुष्मिन् यावत्तावन्महाजनः । तारपूत्कारकृद्वेगादेत्य भूपं व्यजिज्ञपत् ॥ ६४॥ त्वयि नाथेऽपि नि था इव मुष्यामहे वयम् । केनापि क्रूरचौरेण यामिनीसमयेऽन्वहम् ॥ ६५ ॥ कर्णज्वरकरं वाक्यमिदमाकर्ण्य भूपतिः ।। रयादेव समाकार्य, नगरारक्षमाक्षिपत् ॥ ६६॥ रे रे! दुरात्मन्! मे ग्रासं भोजं भोजं स्वपिष्यलम् । मत्प्रजायाः परित्राणं न करोषि च चौरतः ॥ ६७ ॥ सोऽप्याह नाहमीशोऽस्मि चौरनिग्रहहेतवे । अतः स्वामी मयि क्रोधं तोषं वा कुरुतात्तराम् ॥ ६८॥ ततः स्वयमिलापालः करवालकरो निशि । पुरेऽभ्रमन्महावर्त्तमध्ये पतितपोतवत् ॥ ६९॥ निरन्तरं पुरे भ्राम्यन्नखिन्नो भूभृदन्यदा । चौरं क्षत्रमुखान्मक्षु निर्गच्छन्तमवैक्षत ॥ ७० ॥ कोऽसीति भूभुजा पृष्टः सोऽब्रवीत्कमलोऽस्म्यहम् । अन्यान्यकृतपाखण्डिवेषो मुष्णोमि पत्तनम् ॥ ७१ ॥ ततो विशांविभुर्वेगाद् गृहीत्वा तं मलिम्लुचम् । शूलायां रोपयामासायमेव क्ष्माभुजां नयः ॥७२॥ मृत्वा कृतनिदानः संश्चौरो रात्रिञ्चरोऽजनि । ततः स प्राग्भवं ज्ञात्वा वैरं सस्मार भूपतौ ॥ ७३ ॥ सान्तःपुरपरीवारं पुरन्दरनरेश्वरम् । कोपाद् व्यापाद्य पापात्मा स शून्यमकरोत्पुरम् ॥ ७४ ।। एका काञ्चनमाला तु पुरन्दरनृपाङ्गजा । पापेन रक्षसारक्षि, स्वपाणिग्रहणेच्छया ॥ ७५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org