SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ श्रीदानोपदेशमाला (गा. ५५) २८४ तत्र प्रेक्षाञ्चकारैकां नवयौवनशालिनीम् । कनीं तल्पगतां देवीं शापादिव दिवश्च्युताम् ॥ ५२ ॥ कुमारं मदनाकारं पश्यन्ती सापि सस्पृहम् । सहसोत्थाय चावादीद्देवपादोऽवधार्यताम् ॥ ५३ ॥ सिंहासने तया दत्ते राजसूरुपविश्य ताम् । 1 सविषादां विषादस्य कारणं लघु पृष्टवान् ॥ ५४॥ सा प्राह शृणु मे दुःखकारणं करुणानिधे ! यदत्रास्त्यचलामौलिमौलिरेलापुरी पुरी ॥ ५५ ॥ तत्रारिनारीहग्वारिसिक्तकीर्त्तिलतावनः अभून्नाम्ना च लक्ष्या च पुरन्दरनरेश्वरः ॥ ५६॥ सर्वाङ्गसुन्दराकारा राज्यश्रीरिव जङ्गमा । अनङ्गसुन्दरी प्राणेश्वरी तस्य महीशितुः ॥ ५७॥ तयोर्निरन्तरं प्रेमपरयोः शिवयोरिव । जज्ञे काञ्चनमालाख्या, सुता सप्तसुतोपरि ॥ ५८ ॥ साभ्यस्तेष्टचतुःषष्टिकलासादितयौवना । जनन्या जनकं नन्तुं प्रैषि पर्षदि संस्थितम् ॥ ५९ ॥ स्नेहात्सुतां निजोत्सङ्गीकृत्य सर्वंसहेश्वरः । नैमित्तिकं सभासीनं तदापृच्छदिति द्रुतम् ॥ ६०॥ दैवज्ञकशिरोरत्न ! वद विज्ञाय संविदा । अस्याः काञ्चनमालाया भविता कतरो वरः ॥ ६१॥ सोऽपि ज्ञानेन विज्ञाय प्राह रत्नपुरेशितुः । श्रीरत्नप्रभभूपस्य तनयो विनयोल्बणः ॥ ६२॥ रत्नचूडाभिधो भाग्यसौभाग्यैकनिवासभूः । देव! काञ्चमालायास्त्वत्पुत्र्या भविता पतिः ॥ ६३॥ * प्रेक्षाञ्चक्रे कामिति संगतो भाति । Jain Education International For Personal & Private Use Only युग्मम्॥ www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy