________________
संस्तारकादिदानविषये श्रीचन्दनवणिक्कथा
वत्साहं त्वयि तुष्टातो मनोऽभिमतमात्मनः ।
वरं वृणु यतो देवदर्शनं स्यान्न निष्फलम् ॥ ४० ॥ तां प्रणत्य कुमारोऽपि, प्राह शासनदेवते ! 1
४३ ॥
किं किं नाप्तं मया नाभिभुवस्तव च दर्शनात् ॥ ४१ ॥ किमप्यनिच्छते तस्मै देवी चिन्तामणिं बलात् । जगद्विजित्वरं चासिं वितीर्य पुनरादिशत् ॥ ४२ ॥ वत्स! नाभेयदेवस्य प्रसादात्सप्तमे दिने । राज्यं भावि तवाश्वेभभटकोटिरथोत्कटम् ॥ इत्युदित्वा तिरोभावभाजि देव्यां नृपाङ्गभूः । सानन्दः पुरतो गच्छन् ददर्शैकं पुरं परम् ॥ ४४॥ कुमारः प्रविशंस्तत्र नेक्षाञ्चक्रे क्वचिन्नरान् । विभातायां विभावर्यां ग्रहानिव नभोङ्गणे ॥ ४५॥ क्वाप्यपश्यदसौ गन्धसारकर्पूरभासुरम् । लीलां मलयशैलस्य दधद् गन्धाट्टपेटकम् ॥ ४६॥ मुक्ताप्रवालमाणिक्यव्याप्तां क्वापि स ऐक्षत । सौवर्णिकापण श्रेणीं वेलामिव महोदधेः ॥ 11 8011 क्वचिन्निभालयामास सोऽंशुकापणपद्धतिम् । सनर्माणं स्फुरन्नेत्रोल्लासां सीमन्तिनीमिव ॥ ४८ ॥ एवं विविधवस्तूनां विस्तारैः परिपूरितम् । राजमार्गमसौ पश्यन्नासदन्नृपमन्दिरम् ॥ ४९ ॥ यद् भाति रत्नसौवर्णकलशध्वजतोरणैः । पुरलक्ष्मीदिदृक्षायै स्वर्विमानमिवागतम् ॥ ५०॥ कुमारोऽन्तः पुरं पश्यन् शून्यं सौगततत्त्ववत् । कृपाणपाणिरारुक्षत्तत्सप्तममहीतलम् ॥ ५१ ॥
Jain Education International
For Personal & Private Use Only
२८३
www.jainelibrary.org