________________
२८२
श्रीदानोपदेशमाला (गा. ५५) कुमारोऽप्येवमाकर्ण्य पितुर्वाक्यमरुन्तुदम् । नगरान्निरगाद्वेगात्पुण्यमेव प्रमाणयन् ॥ ३० ॥ प्रतिदेशं प्रतिग्रामं जनतां रञ्जयन्नयम् । चित्रव्याघ्रद्विपैर्भीमां जगामैकां महाटवीम् ॥ ३१ ॥ तत्र भ्रमन् ददर्शासौ नभस्तिलकपर्वतम् । निजौन्नत्यश्रियान्याद्रिस्वामितां वदतीव यः ॥ ३२॥ स कौतुकात्तमारुह्य तालहिन्तालसंकुलम् । नारङ्गपूगपुन्नागसुभगं वनमैक्षत ॥ ३३ ॥ तदन्तः प्रविशन्नाशु द्युतिद्योतितदिग्मुखम् । प्रासादमेकमद्राक्षीद्रत्नचूडो मणीमयम् ॥ ३४ ॥ तद्द्वारि वारिजामन्दमरन्दामोदिताम्भसि । वाप्यां श्रान्तः कृतस्नानः प्रासादं प्राविशत्सुधीः ॥ ३५ ॥ दृष्ट्वा चक्रेश्वरीसेव्यां प्रतिमां वृषभप्रभोः । पूजयामास सोऽम्भोजै स्तवमेवं चकार च ॥ ३६॥ स्वामिन्नाभिनरेन्द्रनन्दन! जिन! त्वदर्शनादद्य मे, पापैर्नष्टमनन्तकालजनितैः पुण्यैर्जजृम्भेतराम् ।। माद्यत्कुञ्जरकर्णतालतरलाभिः श्रीभिराभिः स्थिरीभूतं धूतमसंख्यदुःखततिभिर्भिन्नं भयैराभवम् ॥ ३७॥
__ (शार्दूलविक्रीडितम्) स्नातं नेत्रयुगाम्बुजेन रुचिरे पीयूषकुण्डान्तरे, हर्षाद्वैतसुखप्रसंगमसमं स्वान्तेन लेभेऽधुना । रोमाञ्चैर्वपुरञ्चितं च वचसोत्कर्षोदयः सद्गुणश्लाघातो जगृहे मनुष्यजनुषा साफल्यमासादितम् ॥ ३८॥
(शार्दूलविक्रीडितम्) इति स्तुतिपरे भूपपुत्रे चक्रेश्वरीसुरी । प्रकटीभूय सानन्दमनसा तमवोचत ॥ ३९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org