________________
संस्तारकादिदानविषये श्रीचन्दनवणिक्कथा
२८१ प्रीणयंश्च धनाम्भोदैर्मुदा याचकचातकान् । सिन्धुरस्कन्धमध्यास्य ययौ नन्दनकाननम् ॥१८॥ युग्मम्॥ मरुद्भूततरुवातपल्लवैराह्वयन्निव ।। मधुरैः परभृद्ध्वानैः स्वागतं कथयन्निव ॥ १९ ॥ पलाशकुसुमाङ्करैः स्वं रागं दर्शयन्निव । अनेकानोकुहभ्रस्यत्प्रसूनैरर्चयन्निव ॥ २० ॥ भ्रमभ्रमरझंकारविरावैश्च स्तुवन्निव । समवापि कुमारेणारामः कामानुकारिणा ॥ २१॥ कुलकम् ॥ आश्चर्याश्चर्यकृत्क्रीडाविनोदैः क्रीडतामुना ।। वर्षणैः स्वर्णरत्नानामकालजलदायितम् ॥ २२ ॥ सुवर्णकोटयस्तिस्र एकस्मिन्नपि वासरे । रत्नचूडकुमारेण हेलयैव व्ययीकृताः ॥ २३॥ अस्मिंस्तनयवृत्तान्ते कोशाध्यक्षादथ श्रुते । रुषा जज्वाल भूपालः सर्पिःक्षेपात्कृशानुवत् ॥ २४ ॥ ततः कुमारमाकार्य नृपवर्योऽब्रवीदिति । रे रे बाल! मदोत्ताल! किमारब्धमिदं त्वया ॥ २५ ॥ यद्देशेभ्यः समग्रेभ्यः प्रतिवर्ष कथंचन । उत्पाद्यन्ते त्रयस्त्रिंशन्मया हाटककोटयः ॥ २६ ॥ अन्त:पुरे परीवारे स्कन्धावारे च तद्व्ययात् । एकावशिष्यते कोटिः सा पुनः स्थाप्यते निधौ ॥ २७॥ तां च वैरिभये जाते दुर्भिक्षे वाथ संकटे । व्ययीकृत्य मया राज्यं सुस्थिरीक्रियतेतराम् ॥ २८॥ तद् रे दिनमात्रेऽपि कोशमेवं क्षयं नयन् । पुत्रव्याजेन मे शत्रुरुपतस्थे कुतोऽपि हि ॥ २९ ॥ १. आश्चर्यचर्य- L-DI
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org