SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २८० श्रीदानोपदेशमाला (गा. ५५) दम्पत्योरेतयोर्भुञ्जानयोर्वैषयिकं सुखम् । निमेष इव निःशेषः समयः समयात् कियान् ॥ ५॥ इतश्च स्वर्गतश्च्युत्वा रत्नौघस्वप्नसूचितः । तस्याः कुक्षाववातारीज्जीवः कश्चन पुण्यवान् ॥६॥ राज्ञी रत्नवती पूर्णैदहृदैर्दिवसैरपि । असूत सूनुं प्राचीव सवितारं सुतेजसम् ॥७॥ जाते तस्मिन्सुतेऽकार्षीद् राजातुच्छं महोत्सवम् । रत्नचूडाभिधं चास्य रत्नस्वप्नानुसारतः 11 2 11 कलाकलापशिक्षार्थं कलाचार्याय भूभुजा । रत्नचूडः कुमारोऽयं ददे सत्कारपूर्वकम् ॥ ९॥ सोऽधीत्य दिवसैः कैश्चिद् द्वासप्ततिकलाः कलाः I प्राप रेखां कलावत्सु देवेन्द्र इव नाकिषु ॥ १० ॥ औदार्यधैर्यगाम्भीर्यसौन्दर्यैकनिकेतनम् । कुमारो मारसत्क्रीडावनं यौवनमासदत् ॥ ११॥ अथाम्रमञ्जरीमञ्जुमरन्दास्वादसुस्वरैः । भृङ्गैर्गीतयशाः प्राप वसन्तो नन्दने वने ॥ १२॥ प्रसर्पति वसन्तेऽपि यौवनोन्मादवानपि । रत्नचूडो न चिक्रीड क्रीडत्यपि जनेऽखिले ॥ १३ ॥ विलासविमुखं वीक्ष्य पितरौ निजनन्दनम् । तं चानाय्य ब्रुवाते स्म, वत्स ! त्वं रमसे न किम् ॥ १४ ॥ स प्राह तात ! नेच्छा मे पूर्यते स्वल्पया श्रिया । शुचौ तापाभिभूतो हि तृप्यत्यम्भःकणेन किम् ॥ १५ ॥ शुचौ - आषाढमासे । नृपो ज्ञात्वा मनः सूनोः कोशाध्यक्षान् समादिशत् । यदेष याचते वत्सस्तत्प्रदेयमसंशयम् ॥ १६॥ लब्धवित्तस्ततो रत्नचूडः क्रीडनहेतवे । मित्रेभ्यो लक्षसंख्येभ्यो दददाभरणादिकम् ॥ १७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy