SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ संस्तारकादिदानविषये श्रीचन्दनवणिक्कथा २७९ व्याख्या-संस्तारक:-शयनकम्बलः, पादप्रोञ्छनम्-उपवेशनयोग्यकम्बलः, शयनासनपीठफलकप्रमुखं-शयनकृते पट्टः, उपवेशनकृते पट्टकः, प्रमुखशब्देन चतुष्किकादिः। संस्तारकपादप्रोञ्छनं च, "शयनासनपीठफलकप्रमुखं च संस्तारकपादप्रोञ्छनशयनासनपीठफलकादीनि स्वकृते कृतानि, अन्यथा वतिनामनर्हत्वादत एवात्मार्थं निर्मितानि, यतेः-साधोर्विधिना-सिद्धान्तोक्तयुक्त्या, पुण्यार्थ-सुकृताय वितरेद् (दद्याद्) इति गाथार्थः ॥ सनिदर्शनमेतद्वस्तुदानमाहात्म्यमुद्भावयन्नाहचंदणवणिणा मुणिणो एरिसवत्थूण दाणमाहप्पा । अणुहविय णरसुरसिरिं विभूसियं सासयं ठाणं ॥ ५५॥ व्याख्या-चन्दनवणिजा-चन्दनश्रेष्ठिना, मुनेर्महात्मन ईदृग्वस्तूनां पश्चादुक्तानाम् , दानमाहात्म्यान्नरसुरश्रियं-मनुष्यामरलक्ष्मीमनुभूय-भुक्त्वा, शाश्वतं स्थानं-परमपदम् , विभूषितं-मण्डितमिति गाथार्थः ॥ भावार्थः पुनरयम्, तथाहि - जम्बूद्वीपाभिधे द्वीपे श्रीमद्रनपुरं पुरम् । विबुधाधिष्ठितं मेरुमिव व्योमेव राजते* ॥ १॥ नानारत्नाकराकीर्णं यस्यैक्ष्यापणपद्धतिम् । कियद्रत्नाकरं रत्नाकरं जानीत धीधनाः! ॥ २॥ तत्र रत्नप्रभो धात्रीपालो राज्यमपालयत् । विशदीकुरुतेऽद्यापि जगद् यस्य यश:शशी ॥ ३॥ तस्य रत्नावली जाया, यस्याः सौन्दर्यदर्शनात् । कन्दर्पोऽपि रतिप्रीत्योः प्रीतिं शिथिलयत्यलम् ॥ ४॥ * वृत्तिस्त्रुटिता प्रतिभाति । * व्योम्नि विराजते । इति पाठः समीचीनो भाति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy