SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २७८ श्रीदानोपदेशमाला (गा. ५४) निर्मोहोऽपि महासत्त्व! स्नेहमन्थरया दृशा । मामम्बां प्रेयसीश्चैता दयामय! विलोकय ॥ ५२ ॥ एवं विलापमासूत्र्य भद्रा सिप्रानदीतटे । अवन्तिसुकुमालस्याङ्गसंस्कारमकारयत् ॥ ५३॥ भद्रा स्वसुतशोकाग्निज्वालाजालकरालितम् । आत्मानं मज्जयामास, वैराग्यामृतसागरे ॥ ५४॥ अहो असारे संसारे भाण्डागारे महापदाम् । युक्तं योगभृतो नैव, रक्तियुक्तं वितन्वते ॥ ५५ ॥ तन्मे निष्पतिपुत्रायाः सत्राया दुःखसंततेः । गृहावेशे महाक्लेशेऽवस्थानं नैव युज्यते ॥ ५६॥ ततो मुक्त्वा वधूमेकां, ससत्त्वां निजवेश्मनि । अपराभिः समं भद्रा व्रतश्रियमशिश्रियत् ॥ ५७॥ वंशावतंसं भाद्रेयप्रिया सुतमसूत सा । सोऽपि देवगृहं चक्रे पितृनिर्वाणभूतले ॥ ५८॥ योऽवन्तिसुकुमालस्य कालस्थाने सुरालयः ।। बभूव स तु लोकेन महाकालेति गीयते ॥ ५९॥ इत्थमवन्तीसुकुमालस्य श्रुत्वा चरितं चारु वयस्य!। सद्गुरुशय्यादानविधानं कुरु तव येन भवेच्छममानम् ॥ ६० ॥ (मत्तावृत्तम्) ॥ इति श्रीरुद्रपल्लीयगच्छशृङ्गारहारश्रीसंघतिलकसूरिशिष्यश्रीदेवेन्द्रसूरिविरचितायां श्रीदानोपदेशमालावृत्तौ शय्यादानविषयेऽवन्तीसुकुमालश्रेष्ठिदृष्टान्तः समाप्तः॥ वसतिदानवैषयिकमवन्तिसुकुमालनिदर्शनमुक्त्वा षष्ठं संस्तारकदानस्वरूपमाहसंथारपायपुंछणसयणासणपीढफलगपमुहाई । सकए कयाइं जइणो विहिणा वियरिज पुण्णट्ठा ॥ ५४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy