________________
२७७
वसतिदानविषये श्रीअवन्तिसुकुमालकथा द्विधोदरं प्रकुर्वाणा तृतीये प्रहरे निशः । तेन स्वदुर्गतेर्दुर्गं दलयन्तीव साकलि ॥ ४०॥ तुर्ये च यामिनीयामे, मृत्वा तद्ध्यानवानृषिः । विमानं नलिनीगुल्मं चिन्तामणिमिवाप सः ॥ ४१ ॥ अहोसत्त्वमहोसत्त्वमिति स्तुतिपराः सुराः । मुदा तस्य मुनेर्मूर्ध्नि पुष्पवृष्टिं वितेनिरे ॥ ४२ ॥ अथ प्रातः प्रियास्तस्यापश्यन्त्यो जीवितेश्वरम् । गत्वा नत्वा गुरुं प्राख्युः, प्रभो! क्वास्ति स नः प्रियः ॥ ४३ ॥ सूरित्विोपयोगेन तच्चरित्रं यथास्थितम् । तासां पुरस्तादाचख्यौ सुधामधुरया गिरा ॥ ४४॥ इत्याकर्ण्य हहारावपरास्ताः स्वगृहं गताः । गुरूदितं प्रियोदन्तं भद्रायाः पुरतो जगुः ॥ ४५ ॥ भद्रापि तत्क्षणादेवास्तोकशोकसमाकुला ।। . वधूपरिच्छदोपेता कन्थारीवनमाययौ ॥ ४६॥ रक्षोदिशि समाकृष्टं निजसूनोः कलेवरम् । दर्श दर्शं रुरोदासौ, रोदसीपूरमातुरा ॥ ४७॥ विलपन्ती लुठन्ती च भुवि भद्रा वधूयुता । रोदयामास विहगानप्येषा स्वजनानिव ॥ ४८॥ अस्मान्मुक्त्वा पराधीना दीनदीनाननाः सुत! । आत्तदीक्षोऽपि किं नेक्षामात्रेणान्वग्रहीय॒हम् ॥ ४९ ॥ यानि वत्स! स्वमुत्संगमारोप्य त्वामकार्महि । पटुचाटूनि किं तानि हहा विस्मृतवानसि ॥ ५० ॥ अस्मासु भवकारासु, निर्ममश्चेद् भवानभूत् ।। तत्किं हे वत्स! संसारतारकेषु गुरुष्वपि ॥ ५१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org