________________
२७६
श्रीदानोपदेशमाला (गा. ५३) केशान् क्लेशानिव स्वीयानुत्खायाङ्गीकृतव्रतः । स साधुलिङ्गभृत्सूरिपदमूलमुपाययौ ॥ २८ ॥ स्वयमात्ते व्रते मा भूदनवस्थेति सूरिराट् । तमनुग्राहयामास दीक्षयाक्षीणशिक्षया ॥ २९॥ व्रतासेवनजं कष्टं चिरं सोढुं न हि क्षमः । इति ध्यात्वा गुरुं नत्वा, ततोऽसौ निरगान्मुनिः ॥ ३०॥ कटुकण्टकविद्धांहिनिर्यद्रुधिरबिन्दुभिः । अलक्तैरिव भाद्रेयः पृथ्वीपीठं प्रसाधयन् ॥ ३१ ॥ करालकालवेतालं शिवाफेत्कारभीषणम् । निर्भीक: पितृवेश्मेव पितृवेश्म ययौ यतिः ॥ ३२ ॥ युग्मम् ॥ तत्र कन्थारिकानाम्नि कानने शमनानने ।। गृहीत्वानशनं कायोत्सर्गेणास्थान्महामुनिः ॥ ३३ ॥ अथासृक्पङ्कसंमिश्रां तदीयां पदपद्धतिम् । लेलिहाना शिवा काचित्ससुता वनमागमत् ॥ ३४॥ क्रमेण शोधयन्ती सा, सशोणं प्राप्य तत्पदम् । निष्कृपा खादितुं महूं राक्षसीव प्रचक्रमे ॥ ३५ ॥ विदारयन्ती चर्माणि रदनैः क्रकचोपमैः । पिबन्ती शोणितं नीरभोगिणीव सुतैः सह ॥ ३६॥ खादन्ती मांसखण्डानि, लोलं लोलं वृकीव सा । यामिन्याः प्रथमे यामे, तत्क्रमौ निरशेषयत् ॥ ३७॥ मनागपि मनो नास्य स्खलितं सत्त्वशालिनः । यद्वा घुसानुमत्सानु कम्प्यते क्वापि वात्यया ॥ ३८॥ द्वितीये यामिनीयामे खादन्तीमूरुयामलम् । तां वीक्ष्य न चुकोपर्षिरहो क्षान्तिविजृम्भितम् ॥ ३९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org