________________
वसतिदानविषये श्रीअवन्तिसुकुमालकथा
२७५ पुरा क्वापि मयार्थोऽयमनुभूत इति स्वके । हृदि ध्यायन् सुधीर्जातस्मृतिगुर्वन्तिकं ययौ ॥ १६॥ प्रभुं प्रणम्य सोऽप्राक्षीत् श्रीसुहस्तिनमेव हि । विमानं नलिनीगुल्माभिधमध्युषितं किमु ॥ १७ ॥ ततः प्रभुरभाषिष्ट, भद्र! भाद्रेय! नो मया । तत्रोषितं परं जैनागमोक्तं तदगुण्यत ॥ १८॥ प्राप्यते तत्कथं नाथ! सनाथं सौख्यसंपदा । मरुस्थले सर इव, वारिवारिजराजितम् ॥ १९ ॥ तत्रैनं सस्पृहं ज्ञात्वोवाच वाचंयमाग्रणीः । विना जैनेश्वरीं दीक्षां, नाप्यते वत्स! तत्सुखम् ॥ २० ॥ सोऽप्याह करुणाधार! प्रसद्याद्यैव मे व्रतम् । प्रयच्छ येन तद्वासमवाप्नोम्यचिरादहम् ॥ २१ :: भगवानप्युवाचैवं सुकुमालक! बालक! । वार्धिरुल्लोलकल्लोलैर्दुर्लयोऽपि हि लठ्यते ॥ २२ ॥ चंक्रम्यतेऽसिधारापि, मेरुरुल्लोल्यते पुनः । न तु पालयितुं शक्या, जैनी दीक्षातिदुस्तरा ॥ २३॥ युग्मम्॥ भाद्रेयोऽप्यवदन्नाथ! संयमे सस्पृहोऽस्म्यहम् । परं चिरतरं सामाचारी नाचरितुं क्षमः ॥ २४॥ तदहं तत्सुखाकाङ्क्षी नाथ! प्रथममेव हि । व्रतं सानशनं लात्वा, भावी पूर्णमनोरथः ॥ २५ ॥ गुरुणा जगदे भद्र! यद्यैवं तर्हि सत्वरम् । गृहे गत्वा निजान् बन्धूनापृच्छयागच्छ वत्सल! ॥ २६॥ गुरुं नत्वा ततोऽवन्तिसुकुमालः स्वमालयम् । गत्वात्मसहृदोऽपच्छन्नानज्ञातश्च तैर्वते ॥ २१ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org