________________
२७४
श्रीदानोपदेशमाला (गा. ५३) देवाङ्गनोपमानद्वात्रिंशद्युवतिभिः समम् । भुञ्जानो भङ्गान् भोगान् वासरानत्यवाहयत् ॥ ४॥ युग्मम् ॥ एकदा भगवानार्यसुहस्ती साधुभिर्वृतः । विहारचर्ययानार्यदेशलोकान् प्रबोधयन् ॥ ५॥ तस्या नगर्या उद्यानमण्डने जिनमन्दिरे । श्रीजीवत्स्वामिनो बिम्बं नमस्कर्तुमुपाययौ ॥ ६॥ युग्मम् ॥ तेनोपाश्रयवीक्षायै सूरिणा गुणभूरिणा। प्रहितौ गृहीतौ पुस्, गीतार्थों द्वौ महामुनी ॥ ७॥ विज्ञावाज्ञां गुरोधृत्वा शीर्षे शेषामिवात्मनः । शय्यां गवेषयन्तौ तौ भद्रायाः सदनं गतौ ॥ ८॥ सापि हर्षोल्लसद्गात्री मुनी नत्वा व्यजिज्ञपत् । प्रभू! मामनुगृह्णीतमाज्ञादानप्रसादतः ॥ ९॥ तावप्येव ब्रुवाते स्म, शिष्यावावां सुहस्तिनः । भद्रे! तदीयादेशेन प्रार्थयाव उपाश्रयम् ॥ १० ॥ तत्रस्था यन्महात्मानः कुर्वन्ति सुकृतादिकम् । तदीयसंविभागः स्याद् भवतामपि निश्चितम् ॥ ११ ॥ इति श्रुत्वा सुतं पृष्ट्वा, भद्रा वाहनशालिकाम् । ददावथ प्रभुस्तस्यां स्थितः साधुसमन्वितः ॥ १२ ॥ धर्मजागरिकां कुर्वाणेषु साधुषु कर्हिचित् । नलिनीगुल्माध्ययनं गुणयाञ्चकृवान् गुरुः ॥ १३ ॥ तदा भद्रासुतस्ताभिः, प्रेयसीभिः समं मुदा । विलसन्नलिनीगुल्माध्ययने निदधे श्रुती ॥ १४॥ तत्तादृग्भोगसौख्यानि विषाणीव विमुच्य सः । तदाकर्णयितुं सूरिशय्याद्वारमुपाययौ॥ १५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org