________________
वसतिदानविषये श्रीअवन्तिसुकुमालकथा
२७३ शय्यादानात्किं फलं भवतीति प्रकटयन्नाह - पावइ णरसुररिद्धी सुकुलुप्पत्ती वि भोगसामग्गी। णित्थरइ भवं सगारी सिज्जादाणेण साहूणं ॥ ५२॥
व्याख्या-सोऽगारी-गृहस्थः, साधुभ्यो-महर्षिभ्यः, शय्यादानेनवसतिवितरणेन, नरसुरऋद्धीर्मनुष्यदेवसंपत्ती:, प्राप्नोति-लभते । न केवलमेताः सुकुलोत्पत्तिमपि-प्रांशुवंशजन्म, तदपि भोगसंयोगैर्विना अवकेशितरुपुष्पवत् निष्फलम्, अत एव भोगसामग्री: पञ्चोपचाररुचिरभोगसंयोगान् , इत्यादि सामग्रयामवाप्तायां पश्चात् किं भवतीत्याशङ्क्याह भवत्ति-भवश्चातुर्गतिकसंसारस्तं निस्तरति, परमपदनितम्बिनीपीनस्तनतटलुठनसावधानमानसः स्यादिति गाथार्थः ॥ सदृष्टान्तां शय्यादानप्रतिख्यापिकीगाथामाहसिरिअजसुहत्थीणं विइण्णसिज्झापयाणउ लद्धे । णलिणीगुम्मविमाणं अवंतिसुकुमालवरवणिणा ॥ ५३॥ ___व्याख्या-श्रीआर्यसुहस्तिभ्यः-श्रीस्थूलभद्रशिष्येभ्यो वितीर्णशय्याप्रदानात्-प्रदत्तवसतिदानादवन्तिसुकुमालवरवणिजा नलिनीगुल्मविमानं लब्धं-प्राप्तमिति गाथार्थः ।। भावार्थः कथानकगम्यस्तच्चेदंअस्ति मालवकेऽवन्तिनगरी श्रीगरीयसि । यालकापूरिवात्यर्थं श्रूयते धनदाश्रिता ॥१॥ तस्यां भद्राकृतिर्भद्राकुक्षिक्षीराब्धिचन्द्रमाः । अवन्तीसुकुमालाख्यः श्रेष्ठी श्रेष्ठिवरोऽभवत् ॥२॥ स प्राग्भवार्जितागण्यपुण्यप्राप्तधनोदयः । सचित्रचित्रशालायां शालिभद्र इवापरः ॥ ३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org