SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २७२ श्रीदानोपदेशमाला (गा. ५१) यतिभ्यो वसत्यां प्रदत्तायां दात्रा किं किं न दत्तमित्याहपंचसमियाण गुत्तीजुयाण जो देइ वसहिवरदाणं । तेणण्णाई सयलं दिण्णं वुत्तं जओ सुत्ते ॥ ४९॥ व्याख्या-यो वासनापरः पञ्चसमितेभ्य ईर्याभाषैषणादाननिक्षेपोत्सर्गरूपपञ्चसमितिसमितेभ्यः, गुप्तियुतेभ्यो-मनोवाक्कायगुप्तिसहितेभ्यो यतिभ्यो वसतिवरदानं ददाति। तेनान्नाद्यशन-पानखादिम-स्वादिमप्रभृतिवस्तुजातं, सकलं-समस्तं, दत्तं यतो-यस्माद् हेतोः सूत्रे-सिद्धान्ते, प्रोक्तमिति गाथार्थः ॥ एतदेवाहजो देइ उवस्सयं मुणिवराण तवणियमबंभजुत्ताणं । तेण दिण्णा वत्थण्णपाणसयणासणवियप्पा ॥ ५० ॥ व्याख्या-यो दाता तपोनियमब्रह्मचर्ययुक्तेभ्यो मुनिवरेभ्य उपाश्रयं-वसतिं ददाति, तेन विवेकिना वस्त्रान्नपानशयनासनविकल्पा दत्ता इति गाथार्थः ॥ वसतौ दत्तायां शय्यातरस्य को गुणः स्यादित्याहतवसंजमसज्झाओ णाणब्भासो जणोवयारो य । सो साहूणमवग्गहकारी सज्झायरो तस्स ॥ ५१॥ व्याख्या-यः पुण्यवान् साधूनां सुविहितानां, तपो-द्वादशविधं, संयम:-सप्तदशभेदः, स्वाध्यायो-वाचनाप्रच्छनापरावर्तनानुप्रेक्षाम्नायधर्मोपदेशरूपः पञ्चप्रकारस्तपश्च संयमश्च स्वाध्यायश्चेति द्वन्द्वः । यश्च ज्ञानाभ्यास:-सिद्धान्ताध्ययनाध्यापनादिः, यश्च जनोपकार:कुमार्गात् सन्मार्गप्रवर्त्तनम्, तस्य सर्वस्यापि धर्मकृत्यस्य शय्यातरोवसतिदाता, अवग्रहकारी-उपष्टम्भविधायक: स्यादिति गाथार्थः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy