SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ पञ्चमवसतिदानस्वरूपवर्णनम् । इत्याकर्ण्य गुरोर्वाक्यं जातजातिस्मृती ततः । दम्पती प्रतिपेदाते, गृहिणां धर्ममद्भुतम् यतिपतिमथ नत्वा धाम गत्वा मृगाङ्को, व्रतनिवहमुपास्य स्वप्रियायुग्मयुक्तः । अधिगतसुरसंपद् द्वादशे देवलोके, तदनु च शिवलक्ष्मीसंगमाप्स्यत्यवश्यम् ॥ २७३ ॥ (मालिनी) यथा मृगाङ्केण मुनीश्वरस्य वस्त्रादिदानं विहितं तथैव ॥ विधेयमन्यैरपि भावशुद्धया यथा भवन्तीह समीहितार्थाः ॥ २७४ ॥ ( उपजातिः ) ॥ इति श्रीरुद्रपल्लीयगच्छशृङ्गारहार श्रीसंघतिलकसूरिशिष्य श्रीदेवेन्द्रसूरिविरचितायां श्रीदानोपदेशमालावृत्तौ वस्त्रादिदानविषये मृगाङ्ककथा समाप्ता वस्त्रादिदानवैषयिकं मृगाङ्कचरित्रमुक्त्वा पञ्चमं वसतिदानस्वरूपमाहइत्थिजणसंगरहियं पसुपंडयविप्पमुक्कमइविउलं । दिज्जाणवज्जसिज्जं समणाणं विहियमप्पक ॥ ४८ ॥ व्याख्या- स्त्रीजनसङ्गरहितां यतो वसतावनवसरे योषितां सङ्गोऽनर्थाय जायते । यदुक्तं श्री दशवैकालिकेजहा कुक्कुडपोयस्स णिच्चं कुललओ भयं । एवं खु बंभयारिस्स, इत्थीविग्गहओ भयं ॥ १ ॥ [ ८ / ५४ ] ॥ २७२ ॥ Jain Education International ॥ अत एव युवतीजनसंयोगवियुक्तां पसुपंडयत्ति- पशवश्चतुष्पदाःपक्षिणश्च, पण्डका:- क्लीबास्ताभ्यां विप्रमुक्ताम् सर्वथा रहिताम्, यतो मा कदाचन पशुधर्मावलोकात् समाधिभङ्गो भवत्विति भावः । अति- विपुलां बहुविधतपोधनक्रियाकलाप-स्वाध्यायाध्ययन-ध्यानकरणयोग्यत्वादतिशयेन विस्तीर्णाम्, अन्यथा तन्निवृत्तेः । आत्मकृते विहिताम्, साध्वर्थं कृता सती तदनर्ह त्वादत एव स्वनिमित्तं विनिर्मिताम्, अनवद्यशय्यां - निर्दूषणवसतिं श्रमणेभ्यः - साधुभ्यो दद्याद्वितरेदिति गाथार्थः ॥ For Personal & Private Use Only २७१ www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy