________________
२७०
श्रीदानोपदेशमाला (गा. ४७) अनुगत्य यतिं पश्चाद्वलितस्त्वमचिन्तयः । मन्ये धन्योऽहमेवैको यद्गृहे यतिराययौ ॥ २६० ।। दुर्गदौर्गत्यपाथोधिमग्नस्यापि सदा मम । जानेऽनेनैव पुण्येन, मर्त्यजन्म फलेग्रहि ॥ २६१ ॥ लीलावत्यपि ते कान्ता, दृष्ट्वा तद्दानमद्भुतम् । विशुद्धभावनाम्भोधिमग्ना चित्ते व्यचिन्तयत् ॥ २६२ ॥ चित्तवित्तोल्लसत्पात्रसामग्री यस्य जायते । राज्यस्वर्गापवर्गश्रीरालिङ्गति तमङ्गिनम् ॥ २६३ ॥ एवं द्वयोरपि तदा भावः प्रववृधे शुभः । पश्चाच्च पश्चात्तापोऽभूदित्यहो कर्मणां गतिः ॥ २६४ ॥ अस्माभिर्वेश्म गुर्वस्वैर्वस्त्रान्नादि कृतं हि यत् । तद् दत्त्वा हीन्द्रियग्रामो भोगेभ्यो वञ्चितो मुधा ॥ २६५ ॥ गुर्वस्वैः-अत्यन्तनिर्धनैः । अथवा चारु नाचिन्ति गुरुदत्तोद्धृतैरिमैः। परमान्नादिभिः साध्यं साधयिष्यामहे वयम् ॥ २६६ ।। तद्दिनात् त्वद्गृहे द्रव्यममन्दमुदपद्यत । यद्वा सत्पात्रदानेन किं किं स्यान्न मनीषितम् ॥ २६७ ॥ ततो युवाभ्यां जगृहे गृहिधर्मः प्रपाल्य तम् । मृत्वा च प्रथमे कल्पे सुरसंपदवाप्यत ॥ २६८॥ स हंसपालजीवस्त्वं मृगाङ्कोऽभूस्ततश्च्युतः । लीलावती पुनर्जज्ञे प्रिया पद्मावती तव ॥ २६९ ॥ भावाभावविशुद्ध्या यद्ददे दानं तदा त्वया । सापाया निरपायाश्च तेनाभूवंस्तव श्रियः ॥ २७० ।। सत्पात्रदानमासूत्र्य जिनानां प्रतिमा अपि । पश्चात्तापो. न कर्तव्यः कदापि किल कोविदैः ॥२७१ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org