________________
वस्त्रदानविषये श्रीमृगाङ्ककथा
धनधान्यरमारामे ग्रामे धान्यपुराभिधे ।
क्षत्रियो हंसपालोऽभूद् दरिद्री गुणवानपि ॥ २४८ ॥ उक्तं च- जे जे गुणिणो जे जे य माणिणो जे विड्ढविणाणा । दालिद्द रे! वियक्खण ! ताण तुमं साणुराओ सि ॥ २४९॥ तव प्राणप्रिया लीलावती शीलकलावती ।
तां चार्थार्थी गृहे मुक्त्वा त्वमगा विषयान्तरम् ॥ २५० ॥ ग्रामान् पुराणि देशांश्च परिभ्राम्यन्ननेकशः ।
२५२ ॥
लक्ष्मीं तुच्छामपि प्राप्तो न निर्भाग्यशिरोमणे ! ॥ २५१ ॥ तथैव निर्धनो दीनो व्यावृत्तः क्वापि कानने । बिल्वद्रुमस्य भूलग्नं, वटपादं व्यलोकयः ॥ पलाशबिल्वयोर्नूनं वटपादे निधिर्भवेत् । इति ध्यात्वा मुदा त्वं तं समूलमुदमूलयः तत्र सौवर्णदीनारमेकं वीक्ष्येत्यचिन्तयः । नाप्नोत्युदङ्कोऽब्धिस्थोऽपि स्वपूरादधिकं यतः ॥ २५४॥ उदङ्कः-लघुघटः, ‘कुलडी' इति गुर्जरभाषायाम् । तदादाय गृहं प्राप्तः सर्वं जायापुरोऽवदः ।
साप्याह नाथ! किं क्वापि, स्वलभ्याल्लभ्यतेऽधिकम् ॥ २५५ ॥ प्राणेश्वरीगिरा हट्टाद्दीनारेण समानयः ।
शर्करां क्षीरमाज्यं च वासः कलमतन्दुलान् ॥ २५६ ॥ दूरदेशादुपेतस्य स्वभर्तुः क्षुधितस्य ते ।
तया व्यधायि क्षीरेयी, मधुरा परिवेषिता ॥ २५७॥ अथ पुण्योदयात्प्राप्तो जयदत्तस्तवौकसि । मासपारणके जीर्णशीर्णवासा मुनीश्वरः ॥ २५८ ॥ तस्मै जङ्गमकल्पद्रुकल्पाय परमान्नकम् । सशर्कराज्यं वासश्च ददिथातिथये मुदा ॥ २५९॥
* विज्जालग्गम् - गा- १४०.
Jain Education International
For Personal & Private Use Only
॥ २५३॥
२६९
www.jainelibrary.org