SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २६८ श्रीदानोपदेशमाला (गा. ४७) नृपदत्तसितच्छत्रं धारयन्नश्वकोटिभिः । परीतो गजलक्षैश्च मृगाङ्कः प्राविशत्पुरम् ॥२३६॥ प्राप्तश्च वेश्मन्यानंसीत्पितृमातृपदाम्बुजम् । ताभ्यां चाङ्के निवेश्यासावानन्दात्रैरसिच्यत ॥ २३७॥ पूजां संघस्य वस्त्राद्यैर्बिम्बलक्षाणि चार्हताम् । सत्कृती कारयामास यतः श्रीणामिदं फलम् ॥ २३८ ॥ अन्येद्युः कुसुमोद्याने, केवलज्ञानभानुना । तमो विघटयन्नागात्सूरिः श्रीमतिसागरः ॥ २३९॥ सूरेरागमनोदन्तं नृपः श्रीमकरध्वजः । उद्यानपालकात् ज्ञात्वा तं वन्दितुमिवागमत् ॥ २४० ॥ मृगाङ्कोऽपि प्रियायुग्मसहितो हितहेतवे । केवलज्ञानिनं नन्तुं पौरैः सह समेतवान् ॥ २४१॥ महीपालमृगाङ्कादिषूपविष्टेषु सूरिराट् । संसारासारतासारामादिदेशेति देशनाम् ॥ २४२॥ भवाम्भोधौ निमज्जद्भिरङ्गिभी रागरङ्गिभिः । जन्ममृत्युजरादुःखान्यनाथैरिव सेहिरे ॥ २४३ ॥ धनपुत्रकलत्रादिकार्येऽनार्यैः प्रसज्यते । हा क्षणमपि स्वीयं विधेयं न विधीयते ॥ २४४ ॥ यद्यस्ति मोक्षसौख्येषु वाञ्छातुच्छा तदा मुदा । कुर्वीत वीतरागोक्ते, धर्मकर्मणि मानसम् ॥ २४५॥ देशनान्ते मृगाङ्कस्तं विज्ञो विज्ञप्तवान् गुरुम् । किमकारि मया कर्म सापाया येन मे श्रियः ॥ २४६॥ दानं दत्त्वाखण्डि भावः प्रभुः प्राह पुराभवे । स एव कथ्यमानस्तेऽग्रे मृगाङ्क ! निशम्यताम् ॥ २४७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy