________________
२६७
वस्त्रदानविषये श्रीमृगाङ्ककथा अतीवदुष्टचित्तस्य निष्ठुरस्य शठस्य मे ।। त्वया कियदिदं चक्रे गजगामिनि! भामिनि! ॥ २२४ ॥ सौभाग्यवत्सु मे रेखा धन्यो मन्येऽस्म्यहं पुनः । भवादृशी प्रिया यस्य शीलालङ्कारधारिणी ॥ २२५ ।। इदं स्वरूपमाकर्ण्य नरवर्मनरेश्वरः । विस्मितस्तद्गृहायातश्चेतस्येवमचिन्तयत् ॥ २२६ ।। व्यवसायं पृथुन्यायं, साहसित्वं च शूरताम् । विज्ञानं कियदेतस्याः सुकेश्याः संस्तुमो वयम् ॥ २२७॥ अभाषत च हे पद्मावतीयं मम नन्दिनी । प्रियं विना कथं जन्मापनेष्यति वियोगिनी ॥ २२८॥ सा प्रगल्भा नृपं प्राह, योपयेमे मया विभो! । मद्धृदिस्थेन नाथेन परिणीतामवेहि ताम् ॥ २२९ ॥ सुता हिरण्यरेखा ते मेदिनीकामिनीपते!। प्रिया भवतु मे भर्तुर्नात्र कार्या विचारणा ॥ २३०॥ तद्वाक्याज्जातसंतोषो मृगाङ्काय नृपो ददौ । हिरण्यरेखां पुरुषोत्तमायेवार्णवः श्रियम् ॥ २३१॥ कियत्यपि गते काले, स्वपित्रोमिलनेच्छया । विज्ञप्तवान्महीराजं, सत्वरं श्रेष्ठिनन्दनः ॥ २३२ ॥ मद्वियोगान्महाराज! पितरावतिदुःखितौ । यद्याज्ञा वस्तदा गत्वा तदिच्छां पूरयाम्यहम् ॥ २३३ ॥ जानानोऽपि नृपस्तस्य प्रस्थानं दुःखकारणम् । आदिदेशाथवा पान्थैर्वसन्ति नगराणि न ॥ २३४॥ सार्थपोऽथ महाऋद्ध्या* मित्रसामन्तमन्त्रिभिः । प्रियायुगेन च युतः प्रतस्थे स्वपुरं प्रति ॥ २३५॥ * केचित् प्रकृतिभावमपीच्छन्ति तन्मते एष प्रयोगः सिद्धः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org