________________
२६६
श्रीदानोपदेशमाला (गा. ४७) यदि मेऽतिलद्वन्द्वे शोषयेः सर्पिषः पलम् । मुञ्चामि तदा नैवान्यथेत्यूचे स शुल्ककृत्तम् ॥ २१२ ॥
ओमिति स्वीकृते तस्मिन् साहसाङ्को गृहोपरि । निजाभिमानपूर्त्यर्थमस्वाप्सीच्छयनीयके ॥२१३ ॥ तस्य सुप्तस्य सार्थेशः पादौ प्रक्षाल्य वारिणा । पराममर्श कच्चोलस्थितसर्गि:पलेन सः ॥ २१४ ॥ याममात्रे व्यतीतेऽपि पारं नेयुषि सर्पिषि । नात्यजद् व्यवसायं स भीतस्तस्य भियाधिकम् ॥ २१५ ॥ सोऽतीवखिन्नो मन्वानस्तं निद्रामुद्रितेन्द्रियम् ।। पपावुत्पाट्य कच्चोलघृतं रङ्क इव द्रुतम् ॥ २१६ ॥ रे रे धृष्ट! ममाप्यग्रे पिबस्येवं घृतं छलात् । इति जल्पन् जघानामुं सोऽ िघातेन निष्ठुरम् ॥ २१७॥ वदाशु क्रियते किं त इत्युक्तोऽब्रूत सार्थपः । तव हस्तौ च मत्पृष्ठिर्यज्जानीषे कुरुष्व तत् ॥ २१८ ॥ बाहू विधृत्य सार्थेशं शयनीये निवेश्य च । सोऽथ पद्मावतीभूय प्रोचेऽहं नाथ! ते प्रिया ॥ २१९ ।। अभिमानमहाम्भोधे! क्षिप्ताहं सागरे त्वया । मयापि तेन नाथ! त्वं, पातितो दुःखवारिधौ ॥ २२० ॥ तदयं क्षम्यतां स्वामिन्नपराधः प्रसद्य मे । कषन्ति कूलं कूलिन्यो घनौत्सुक्यान्न चाब्धयः ॥ २२१ ।। विद्याधरार्पिता विद्याः समस्तो धनसंचयः । कन्या हिरण्यरेखा च त्वदायत्ता इमे प्रभो! ॥ २२२ ॥ इदं स्वरूपमाकर्ण्य, प्रमोदभरनिर्भरः । मृगाङ्को विकसन्नेत्रशतपत्रस्तामभाषत* ॥२२३ ॥ * इदं चरणं नवाक्षरीयमस्ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org