SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ वस्त्रदानविषये श्रीमृगाङ्ककथा । तदुक्ताद् द्विगुणं वस्तु वीक्ष्याह मम रे पुर: 1 असत्यं जल्पतस्तेऽस्तु समर्चनमुपानहा ॥ २०१॥ ततः सर्वस्वमादाय बन्धयित्वा च चौरवत् । निनाय तं निजं धाम नीतिमार्गं स दर्शयन् ॥ २०२ ॥ * निबिडैर्निगडैर्बध्यो लम्बकम्बाप्रहारजाम् । वेदनां साहसाङ्केन मृगाङ्कस्ताड्यतेऽन्वहम् ॥ २०३॥ तद्विधाय दयां तस्मान्मोचयास्माकमीश्वरम् । ततो राजा तमाकार्य जगौ मधुकिरा गिरा ॥ २०४ ॥ देशान्तरिकलोकानां कुर्वतस्ताडनादिकम् । तवाकीर्तिर्दिगन्तानि श्यामयन्ती भ्रमिष्यति ॥ २०५ ॥ सोऽप्याह सापराधं नो मुञ्चामि कथमप्यहम् । तथापि युष्मदादेशान्मुक्तोऽसौ मां निषेवताम् ॥ २०६ ॥ ततो मृगाङ्कस्तन्मुक्तो भुङ्गे स्म सह सेवकैः । तदादिष्टं च कुर्वाणः सोऽस्थात्तद्वारि भृत्यवत् ॥ २०७ ॥ साहसाङ्काननं पश्यन् सार्थेशोऽथः पुनः पुनः 1 किमु पद्मावतीभ्राता, किं वा सैवेत्यचिन्तयत् ॥ २०८॥ प्रसन्नास्यं विमृश्यामुं चिरकालातिसेवया । विज्ञप्तवानयं स्वामिन्! मुञ्च मां याम्यहं गृहम् ॥ २०९ ॥ साहसाङ्को हसित्वाह जीवन्तं त्वां त्यजामि न 1 मम पार्श्वस्थितश्चैव कुरु सेवामनारतम् ॥ २१०॥ अतिकोपं त्यज स्वामिन्नूचे कुसुमसारसूः । कथंचनापि मां मुञ्च सन्तो हि नतवत्सलाः ॥ २११॥ * कथानुसन्धानं त्रुटितं भाति, अतोऽनुसन्धानमिदम् । निबिडैर्निगडैर्बद्ध्वा, लम्बकम्बाप्रहारजाम् । वेदनामनिशं दत्ते, साहसाङ्कोऽतिनिर्दयः ॥ २०३ ॥ दृष्ट्वा तत्परिवारेण, कतिचिद्दिनतो नृपः । विज्ञप्तो साहसाङ्केन, मृगाङ्कस्ताड्यतेऽन्वहम् ॥२०४॥ Jain Education International २६५ For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy