________________
२६४
श्रीदानोपदेशमाला (गा. ४७) दृष्टः श्रुतो वा केनापि द्वयोः पुंसोईयोः स्त्रियोः । पाणिग्रहविधिर्यद्वा जीवद्भिः किं न दृश्यते ॥ १८९ ।। उन्मुक्तबन्धनाच्चौरादक्कां मकरदंष्ट्रिकाम् । स्वभावरमणीरूपां कृपयाकारयन्नृपः ॥ १९० ॥ चौरादादाय विद्यास्तास्तास्तालोद्घाटिनीमुखाः । विचारचतुरो राजा, जीवन्तं मुक्तवानमुम् ॥ १९१ ॥ इतश्च सिंहलद्वीपात्समुपाW घनं धनम् । सुंसुमारपुरं प्राप स मृगाङ्को विधेर्वशात् ॥ १९२ ॥ पोतान् संस्थाप्य भृत्वा च स्थालं रत्नादिवस्तुभिः । साहसाङ्ककुमारस्य दर्शनाय स आययौ ॥ १९३ ।। साहसाङ्कोऽपि तं नाथं ज्ञात्वा दम्भाददोऽवदत् । सार्थेश! वद किं किं ते वस्तु पोतेषु विद्यते ॥ १९४॥ क्रयाणकानां संख्याथ सार्थवाहेन लेखिता । तस्या मुमोच दानार्धं साहसाङ्कः प्रसन्नवत् ॥ १९५ ।। अपृच्छच्चाधिकं चेत्ते वस्तु पोतेषु तद्वद । निर्दोषताधुना प्रोक्ते, पश्चाद्दोषे पतिष्यसि ॥ १९६॥ मृगाङ्कोऽप्याह पोतेषु विद्यते नाधिकं प्रभो! । वाच्यं च देवपादानां सत्यमेव पुरो मया ॥ १९७॥ करिष्ये सार्थवाहस्य वस्तुनोऽद्य परीक्षणम् । इत्युक्त्वा साहसाङ्कः श्राक् सुखासनगतोऽचलत् ॥ १९८॥ सोऽश्ववारैरतिस्फारैरवारितपराक्रमैः । परीतः परितः प्राप यत्रास्ति वहनावलिः ॥ १९९ ॥ तस्योरांसीव मञ्जिष्ठास्थानकानि व्यदारयत् । तज्जीवितेन साकं च स वस्त्वारोपयत्तुलाम् ॥ २०० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org