________________
वस्त्रदानविषये श्रीमृगाङ्ककथा
१७६ ॥
प्राणान्ते त्वामहं पाप ! कुर्वे कान्तं कदापि न 1 त्वं चाद्यानेन पापेन ध्रुवमेव पतिष्यसि ॥ इति तद्वचसा जातकोपाटोप स तस्कर: 1 यावत्कृपाणमाकृष्याधावत्तस्याः शिरश्छिदे ॥ १७७॥ तावत्स साहसाङ्कोऽपि दूरीकृतदृगञ्जनः । ततर्ज तमरे ! कन्याघातिन्नाप्स्यसि तत्फलम् ॥ १७८॥ किमेतदिति तां मुक्त्वाऽधावत्तं प्रति कोपतः । वीरयोरनयोर्जज्ञे चान्योऽन्यं दारुणो रणः ॥ १७९॥ सहसा साहसाङ्कस्य खड्गपातेन वज्रवत् । अभिद्यत तदीयासिः समं तस्य मनोरथैः ॥ १८०॥ भग्नासिदण्डमुच्चण्डं गृह्णन्तमथ मुद्गरम् ।
कुमारः पादघातेन निहत्याशु बबन्ध तम् ॥ १८१ ॥ पिधाय विवरद्वारं संस्थाप्य च नृपाङ्गजाम् । दिनोदयेऽवनीजानेरागमत्सविधे सुधीः ॥ १८२ ॥ व्यजिज्ञपच्च राजेन्द्राभ्येत्य कन्या विलोक्यताम् । स्वस्वादानाय लोकोऽपि, क्षिप्रमाहूयतामिह ॥ १८३ ॥ तस्येति वाचमापीय सुधामिव नृपोऽतुषत् । समं च तेन संप्राप्तश्चौरपातालमन्दिरम् ॥ १८४ ॥ ततो निजं निजं द्रव्यं, पौरेभ्योऽदापयन्नृपः । न मन्यन्ते तृणायापि परार्थं हि महाशयाः ॥ १८५॥ अनिच्छतेऽपि तां पुत्रीं कुमाराय नृपो ददौ । युगान्तेऽपि निजां वाचं लुम्पन्ति न हि सज्जनाः ॥ १८६॥ यदुक्तं - अलसायंतेण वि सज्जणेहिं जे अक्खरा समुल्लविया । ते पत्थरेसु टंकुल्लिहियव्व ण हु अण्णहा हुंति ॥ १८७ ॥ यत्कन्या गुटिकाच्छन्नाबलारूपवतेऽपि मे ।
दीयते तदिहाश्चर्यमित्ययं हृद्यचिन्तयत् ॥ १८८ ॥
* प्राकृतसुभाषितसंग्रह - गा - १०
Jain Education International
For Personal & Private Use Only
२६३
www.jainelibrary.org