________________
२६२
श्रीदानोपदेशमाला (गा. ४७)
राज्ञा स्वहस्तदत्तं सोऽवाप्य प्रसादबीटकम् । गृहं गत्वा परीवारं वारयाञ्चकृवानिति ॥ १६४॥ स्वैरं निद्राद्य कर्त्तव्या दातव्या नैव तालका: 1 उपेक्षणीयश्चौरश्च प्रविशन् कोशवेश्मनि ॥ १६५ ॥ अदृश्यरूपतां कृत्वा सोऽञ्जनस्यानुभावतः । परविद्यापहां विद्यां संस्मरंस्तत्र तिष्ठवान्* ॥ १६६॥ निशम्य सोऽपि लोकास्यात् तत्प्रतिज्ञातमीदृशम् । उपहासपरश्चौरस्तुत्रौके निशि तद्गृहे ॥ १६७ ॥ कृत्वापस्वापिनीदानं सदनाभ्यन्तरं गतः 1 कोशमप्रावृतद्वारं दृष्ट्वा हृष्टः प्रविष्टवान् ॥ १६८॥ गृहीत्वा सारसर्वस्वं निः ससार स तस्करः 1 साहसाङ्कोऽपि तत्पृष्ठे खड्गव्यग्रकरोऽचलत् ॥ १६९॥ पुरात् क्रमेण निर्गत्य धीरौ वीरावुभावपि । कीनाशवदनाकारं प्रविष्टौ विवरं गिरेः ॥ १७० ॥ धनमाशु विमुच्यासौ निकामं कामविह्वलः । गत्वा राजसुताभ्यर्णे पापीयानित्यभाषत ॥ १७१ ॥ अद्यापि न वचः किं मे कुरुषे किमु रोदिषि । सुलोचने ! त्वया मुक्तं मुक्तजीवमवेहि माम् ॥ १७२॥ इदं मणिमयं धाम वस्तून्येतानि भूरिशः । दासोऽहमप्यतः सर्वं स्वाधीनं विद्धि भामिनि ! ॥ १७३ ॥ अबलाया बलात्कारः क्रियते नैव केनचित् । तेन स्तेनोऽप्यहं चाटुवाचो वच्मि पुरस्तव ॥ १७४॥ साप्येवमाह रे पाप ! मुक्तमर्याद ! निस्त्रप! 1 पारदारक! मां हत्वा सुखितो भव सम्प्रति ॥ १७५ ॥
* स्थितवान्...तस्थिवान् वेति संगतं भाति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org