________________
वस्त्रदानविषये श्रीमृगाङ्ककथा
1
स मायी प्राह मातस्ते धनं स्वाधीनमेव मे । तदेव किन्तु कर्त्तव्यं भवत्या यद्वदाम्यहम् ॥ १५२ ॥ कपाटसंपुटं दत्त्वा, गृहस्यान्तः प्रविश्य च दिव्यौषधिरसावास्ये निक्षेप्या सादरं त्वया ॥ १५३॥ अक्के ! भविष्यसि व्यक्तं प्रातस्तारुण्यशालिनी । रूपेण च सुरस्त्रीषु जयपत्रं प्रदास्यसि ॥ १५४॥ तद्वाक्ये जातविश्रम्भा तथैवाकृत कुट्टिनी । धूर्तोऽप्यादाय तद्वेश्मसर्वस्वमगमत्कृती ॥ १५५ ॥ विरते यामे यामिन्या गृहान्तः शुम्भलीसुता । शब्दायमानाम श्रौषीत् खरीमतिखरस्वरीम् ॥ १५६ ॥ उद्घाट्य द्वारमालोक्य तामक्कां खररूपिणीम् । तद्वर्गो विललापोच्चैः शठेन किमकारि हा ॥ १५७॥ मतिप्रभायां सन्देहैर्विलीनं तामसैरिव ।
यस्यास्तवाम्ब ! किं जातमवसानमिदं हहा ॥ १५८॥ चौरोऽपरेद्युर्भूजानेर्नवयौवनशालिनीम् ।
कन्यां हिरण्यरेखाख्यां छागीं वृक इवाहरत् ॥ १५९ ॥ सुतापहारसंभूतदुःखप्राग्भारदुर्मनाः ।
पटहं दापयामास पुरे श्रीनरवर्मराट् ॥ १६०॥ स्तेनं विज्ञाय यः कोऽपि समानयति मे सुताम् । तस्मै समीहितामृद्धिं दास्येऽहं सहितां तया ॥ १६१॥ साहसाङ्ककुमारोऽथ भ्रमन्तं पटहं पुरे ।
स्पृष्ट्वा परिवृढं प्राह देवादास्ये मलिम्लुचम् ॥ १६२ ॥ आनीय भवतां पुत्रीं चौरचारं निवार्य च 1 नगरीं सुखिनीं कर्त्ता स प्रतिज्ञातवानिति ॥ १६३ ॥
Jain Education International
For Personal & Private Use Only
२६१
www.jainelibrary.org