________________
२६०
श्रीदानोपदेशमाला (गा. ४७) नरेन्द्रो मन्दमन्दाक्षश्चेतस्येवमचिन्तयत् । यं हन्तुमुद्यतोऽहं तु हन्त तेन कृतं किमु ॥ १४० ॥ ततो विषादिनं भूपं जानुविन्यस्तमस्तकम् । प्रणन्तुमागतो मन्त्री निरीक्ष्येति व्यजिज्ञपत् ॥ १४१॥
खेदं मुञ्च विभो! पश्य मबुद्धेश्च विजृम्भितम् । पञ्चाहेन मया ग्राह्यो ध्रुवं पाटच्चराग्रणीः ॥ १४२ ।। पाटच्चराग्रणी:-स्तेनशेखरः । प्रससार प्रतिज्ञेति मन्त्रिणः पत्तनेऽखिले । यदेष धीप्रपञ्चेनाचिराच्चौरं ग्रहीष्यति ॥ १४३ ॥ तालोद्घाटिन्यपस्वापिनीभ्यां स सचिवौकसः ।। विशिष्य निशि सर्वस्वमपाहार्षीन्मलिम्लुचः ॥ १४४ ॥ चौरग्रहणचिन्ताब्धौ मज्जतो मन्त्रिणः पुरः । कथितं सेवकैर्देव! कोशस्ते तेन लुण्टितः ॥ १४५ ॥ एवं दर्पात्प्रतिज्ञातं यैनैमित्तिकादिभिः । ते ते विडम्बिताः सर्वे तेन हृत्वाखिलं धनम् ॥ १४६ ॥ अथो मकरदंष्ट्राख्या शुम्भली भूभुजः पुरः । चौरग्राहं प्रतिज्ञाय समियाय निजालयम् ॥ १४७ ॥ तस्याः प्रतिज्ञां विज्ञाय, कृत्वा शृङ्गारमेत्य च । सायं वेश्यागृहद्वारे कुब्जां चेटी न्यभालयत् ॥ १४८॥ तन्मुष्टिघातात्सजत्वं प्राप्य कुब्जाह कुट्टिनीम् ।। मातः! केनापि पुंसाहमचिरात् सरसीकृता ॥ १४९ ॥ तच्छ्रुत्वा विस्मिता प्राह क्व स क्व स नरोत्तमः । अक्का तया समं चेट्या तत्समीपमियाय च ॥ १५० ॥ सा प्रह्वा प्राह तं धूर्त, वत्स! मां तरुणीं कुरु । यद्याचसे धनं तत्ते, प्रदास्ये कामगौरिव ॥ १५१ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org