________________
वस्त्रदानविषये श्रीमृगाङ्ककथा
२५९ सोऽन्यदा नैगमानाह, देयं दानार्धमेव मे ।। क्रयाणकेष्वसत्यं तु, न वक्तव्यं कदाचन ॥ १२८ ॥ असत्यवादी यस्तेषु तस्याहं स्वेच्छया पुनः । करिष्ये दारुणं दण्डमित्येष मम संगरः ॥ १२९ ॥ अत्रान्तरे सभासीनं, नरवर्मनरेश्वरम् । विज्ञप्य पौरा वासाय स्थानमन्यद्ययाचिरे ॥ १३०॥ किमेवं वदतेत्युक्ता राज्ञा पौरा जगुर्विभो! । तथा चौरेण मुषिता जाता निःशम्बला यथा ॥ १३१ ॥ अस्माभिः सपरीवारैरपि निद्राविवर्जितैः । निशायां नेक्ष्यते कोऽपि राजन्नगरवीथिषु ॥ १३२ ॥ परं प्रगे कृतं तेन वृत्तं त्यस्रं चतुर्दलम् । पद्माकारं घटाभं च क्षत्रमेव निरीक्ष्यते ॥ १३३ ।। एवमाकर्ण्य भूपालो, भ्रकुटीभीषणालिकः । आहूय प्राह दुर्गेशं साधु रे! रक्ष्यते पुरम् ॥ १३४ ।। सोऽप्याह तस्करं पश्यन्नपि पश्यामि नान्धवत् । चेद्रुष्टोऽसि महाराज! तदान्यं कुरु मत्पदे ॥ १३५ ॥ महाजनं विसृज्यान्तःपुरं गत्वा च भूपतिः । चौरनिग्रहणोपायचिन्तने प्रगुणोऽजनि ॥ १३६ ।। कार्यं धैर्येण संसाध्यमिति ध्यात्वा नृपो निशि । कृपाणपाणिनिर्भीको, बभ्राम निखिले पुरे ॥ १३७॥ शून्यागारसुरागारमठारामेषु स भ्रमन् । न प्राप क्वापि तं पापं, प्रत्यावृत्यागमद् गृहम् ॥ १३८॥ तदारक्षकपूत्कारमश्रौषीदिति भूप्रभुः । अशेषा अपि हा कोशा मुषिताः परिमोषिणा ॥ १३९ ।। परिमोषिणा-चौरेण ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org