SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ पञ्चप्रकारकं दानम् दानेन सत्त्वानि वशीभवन्ति, दानेन वैराण्युपयान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दानात्तस्माद्धि दानं सततं प्रदेयम् ॥२॥ ( उपजाति: ) गुणित्ति गुणा- औदार्य - धैर्य - गाम्भीर्यादयस्तेषां निदानं कारणम् । 'यतो दानवानेव भुवने जनैर्गुणवान् गीयत' इत्याशयः । तिहुयणित्ति त्रिभुवनमूर्ध्वाधस्तिर्यग्लोकलक्षणं तत्र याः सिद्धयश्चतुरशीतिलब्धिरूपा अथवा अणिमाद्यास्तासां निधानं - सेवधिः । यथा रत्नानामाधारो निधिर्भवति, तथा सर्वासामपि सिद्धीनामिदमेव । अत ईदृग्विधगुणगरिष्ठं हे जना! लोकाः !, सदा निरन्तरम् दानमाचरत - कुरुध्वमिति गाथार्थः ॥ कैरिदं दानं प्ररूपितमित्याहचउगइणिवारयाणं, धम्माणं चउविहाण मज्झम्मि । पढमं दाणं पवरं, परूवियं वीयराएहिं ॥३॥ व्याख्या-चउगइत्ति-चतस्रश्च ता गतयश्च चतुर्गतयः सुरनरनैरयिकतिर्यग्रूपास्ता निवारयन्ति निषेधयन्तीति चतुर्गतिनिवारकास्तेषां केषामित्याह धम्माणंति - दुर्गतौ प्रपतन्तं प्राणिगणं धत्त इति धर्मः । उक्तं च- दुर्गतिप्रसृतान् जन्तून्, यस्माद्धारयते ततः धत्ते चैतान् शुभे स्थाने तस्माद्धर्म इति स्मृतः ॥१॥ कतिसंख्यानां तेषामित्याह चउविहाणंति चतुर्विधानां दानशील -तपोभावनाभिश्चतुष्प्रकाराणां मध्ये प्रथमं - पूर्वम्, प्रवरं - प्रकृष्टं दानं प्ररूपितं - निवेदितम्, कैरित्याह, वीयराएहिंति विशेषेण इता: प्रेरिता रागादयोऽरयो, यैस्ते वीतरागास्तैरे वंविधैरतीतानागतवर्तमानजिनवरेन्द्रैरिति गाथार्थः ॥ " तस्यैव दानस्य भेदान् प्रकटयन्नाह - तं पुण पंचपगारं सुपत्तदाणं तहा उचियदाणं । अणुकंपाभयदाणं पण्णत्तं णाणदाणं च ॥४॥ १. पंचमं... MI Jain Education International For Personal & Private Use Only - www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy