SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीदानोपदेशमाला (गा. २.) मङ्गलानि-कुशलानि तान्येव मणयो-वैडूर्यादिरत्नानि तेषां निवासयोग्यत्वात् शालेव शाला-वसतिस्थानं ताम् । यथाहि-शाला सकलसारवस्तूनां वासभूर्भवति, तथेयमपि मङ्गलमणीनां निवासत्वादास्थानमण्डपः ॥ तामेवंविधां भणामि-कथयामि भव्यानां पुरस्तादिति । अत्र संबन्धो वाच्यवाचकलक्षणः, वाच्यं प्रकरणस्यार्थः, वाचकमेतत् प्रकरणम्, अभिधेयं दानोपदेशाः, मङ्गलमणीशालामिति प्रयोजनम् , तच्च द्विप्रकारम् , प्रकरणकर्तुः श्रोतुश्च, तत् पुनः परापरभेदेन द्विविधम् , कर्तुः परं परमपदसाम्राज्यप्राप्तिरपरं च भव्यप्राणिप्रतिबोधानुग्रहः, यदुवाच वाचकमुख्यः न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति ॥१॥ श्रोतुरपि परं सिद्धिसौधादिदेवताधिगतिः, अपरं तु शास्त्रार्थपरिज्ञानम् । योऽत्र पुरा धनसार्थवाहजन्मनि कृतसत्पात्रदानस्य श्रीयुगादिदेवस्य नमस्कारः, सोऽस्य ग्रन्थस्य दानप्राधान्यं व्यनक्ति । तथा मङ्गलादीनि मङ्गलपर्यन्तानि शास्त्राणि भवन्ति । अतो मंगलमणीसालमित्यनेन विशेषणेन मङ्गलोपादानमिति गाथार्थः ॥६॥ अथ फलप्रतिपादनपूर्वं दानोपदेशमाह। णिरुवमसुहाण ठाणं दुरियाण पणासणं गुणनियाणं । तिहुयणसिद्धिनिहाणं आयरह सया जणा दाणं ॥२॥ ___ व्याख्या-णिरुवमित्ति-निरुपमान्यनन्यान्यसामान्यानि यानि सुखानि नरासुरसुरशिवशर्मरूपाणि तेषां स्थानमिव स्थानं न्यासभूमिः, यतोऽमुष्मादेव क्रमादेषामुत्पादात् । दुरियत्ति-दुरितानि-राजवैरिपरचक्रदुर्जनादिभिः कृतानि यानि विघ्नानि तेषां प्रणाशनं विध्वंसकारकम् उक्तं च Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy