________________
मङ्गलाद्यनुबन्धचतुष्टयम्
तस्य करणं संपादकम्, न ह्यन्येन केनापि दैवतेन ईदृग्विधमभिलषितं सम्पादयितुं शक्यत इति भावः ।
३
" नाणधणित्ति" ज्ञायते त्रिभुवनभवनोदरविवर्त्तमानानन्तधर्मात्मकं वस्त्वनेनेति ज्ञानं मतिश्रुतावधिमनःपर्यायकेवलस्वरूपं तदेव धनमिव धनं सारस्वतेयरूपं यस्य तम् । यथा धनी धननिवहेन महीतले महत्त्व - माप्नोति तथा भगवानपि ज्ञानधनेन त्रिजगदाश्चर्यकारि परमैश्वर्यमार्जितवानित्याकूतम् । नन्वेवंविधविविधगुणगणप्रगुणः कस्तमित्याह, 'रिसहजिणित्ति' जयति दुर्निवारानन्तरङ्गारातीनिति जिनः, ऋषभश्चासौ जिनश्च ऋषभजिनस्तं प्रथमनाथं 'प्रणम्य' त्रिकरणविशुद्ध्या नमस्कृत्य । यत उपहासपरोऽपि नमस्कारः संभवति ।
Jain Education International
यदुक्तं - नमस्यं तत्सखि ! प्रेम घण्टारणितसोदरम् । क्रमक्रशिमनिस्सारमारम्भगुरुडम्बरम् ॥१ ॥
अतस्तद्व्यवच्छेदाय प्रोपादानं । अत्र च श्रीयुगादिदेवस्य विशेषणद्वारेण चत्वारोऽतिशयाः प्रतिपादिताः । तत्र च सयलसमीहियकरणमित्यनेन भगवतो निरुपमदेशनादानसम्पादितमनोवाञ्छितत्वाद् वचनातिशयः । 'यो ददाति स देवता' इति न्यायादनेनैव निरन्तरभक्तिभरप्रणम्रसुरासुरनराधिराजराजिविनिर्मितप्रातीहार्यसपर्यावत एव पूजार्हत्वात् पूजातिशयः ॥ रिसहजिणमित्यनेनाऽष्टादशदोषसमूलकाषं कषणादपायापगमातिशयः ॥ णाणधणमित्यनेन विमलकेवलविशिष्टत्वाज्ज्ञानातिशयः । अथ कृतभावमङ्गलोऽभिधेयमाह, दाणोवएसमालित्ति - ' दीयते सत्पात्रादिभ्य इति दानं' तस्योपदेशा - विधिनिषेधस्वरूपनिरूपणानि, तेषां माला श्रेणिस्ताम् । यद्वा मालेव माला पुष्पदाम सा हि कण्ठपीठधारणार्हा भवत्यतो दानोपदेशमालापि सहृदयैः स्वहृदये विशिष्य निवेश्या । तामेव विशिनष्टि मंगलमणीसालित्ति
For Personal & Private Use Only
-
-
www.jainelibrary.org