________________
श्रीदानोपदेशमाला (गा. १.) प्रसादमासाद्य यद िपद्मयोर्जडोऽपि विद्वज्जनशेखरायते । सरस्वती सा मम मानसान्तरे, तनोतु हंसीव निवासमञ्जसा ॥७॥
. (वंशस्थवृत्तम्) विश्वातिशायिमतयो गुणशालिरुद्रपल्लीयगच्छगगनाङ्गणशीतभासः । सिद्धान्तवारिनिधयो गणधारिणोऽमी, नन्दन्तु सङ्घतिलका गुरवोऽस्मदीयाः ॥८॥ (वसन्ततिलका) येषां गुरूणामभिधा जगत्यामजिह्मवाग्, ब्रह्ममयीव मन्ये । नो चेत् कथं तत्स्मृतिमात्रतोऽयं, जन: कवित्वं तनुते जडोऽपि ॥९॥
(उपजाति:) तन्निर्देशात् स्वकृतेः श्रीमद्दानोपदेशमालायाः । वृत्तिं सुखावबोधां कुर्वे स्वपरोपकाराय ॥१०॥
इह हि प्रकरणकारः प्रकटीकृताऽमृतायमानसत्पात्रदानोपदेशसारः संसारपारावारवारिप्रवाहप्रणिमजत्प्राणिगणनिस्तारणप्रवहणायमानागण्यपुण्यकाननोल्लासनघनाघनसंरम्भे श्रीदानोपदेशमालाप्रकरणप्रारम्भे तत्त्वातत्त्वविवेकच्छेकास्तोकलोकचेतश्चमत्काराय प्रेक्षावत्प्रवर्तनाय शिष्टसमयप्रतिपालनाय दुरन्तदुरितदूरीकरणाय च समुचितेष्टदेवतानमस्कारपूर्वकमभिधेयप्रयोजनसंबन्धबन्धुरां प्रथमगाथामाहसयलसमीहियकरणं, रिसहजिणं पणमिऊण णाणधणं । दाणोवएसमालं भणामि मंगलमणीसालं ॥१॥
व्याख्या-'सकलसमीहितकरणं ज्ञानधनं वृषभजिनं प्रणम्य मङ्गलमणीशाला दानोपदेशमाला भणामीति' क्रियासंबन्धः । भावार्थस्त्वयम्-'सयलसमीहियकरणित्ति', क्रियत इति करणम् , सकलंसमस्तम्, यत्समीहितम् ऐहिकपारलौकिकशिवशर्मानुयायि मनोवाञ्छितं १. मालं... MI
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org