________________
॥ श्रीसिद्धचक्राय नमः ॥ ॥ ॐ नमो जिनेभ्यः ॥
aaaaaaaaaaaaaap श्रीदानोपदेशमाला
त्रैलोक्यराजकमलाममलाशयेभ्यः, सद्भ्यः प्रदातुमिव यस्य शिरःप्रदेशे । छत्रत्रयं रजनिजानिनिभं विभाति, स श्रेयसे भवतु वो वृषभो जिनेशः . ॥१॥ (वसन्ततिलका) यः स्वर्गलोकात् कृपयाचिरायाः, कुक्षौ धरावासिजनाऽशिवानाम् । प्रशान्तिमाधातुमिवावतीर्णः, स शान्तिदेवो मुदमादधातु ॥२॥
(उपजाति:) यस्योपदेशसमये विशदा रदानां, भासस्तमालसमदेहरुचौ मिलन्त्यः । भव्याङ्गिमङ्गलविधौ दधिनव्यदूर्वालीलां श्रयन्ति स शिवाय शिवातनूजः । ॥ (वसन्ततिलका) यस्य प्रभोर्मूर्धनि भोगिराज-स्फुटस्फटाटोपमणिमयूखाः । विभान्ति दीपा इव मुक्तिमार्ग-प्रकाशनार्थं स मुदेऽस्तु पार्श्वः ।।४।।
(उपजाति:) वाञ्छातिगार्थफलदौ चरणौ यदीयौ, स्वं चाल्पदायिनमवेत्य सुपर्ववृक्षाः । अद्याप्यमी नखमिषादिव पल्लवौघै-, रञ्चन्ति सोऽवतु जनान् जिनवर्धमानः ।।५॥ (वसन्ततिलका) आपगा इव महापगापति, सत्कला इव कलाविलासिनम् । यं श्रिताश्चतुरशीतिलब्धयः, स श्रिये भवतु गौतमः प्रभुः ॥६॥
(रथोद्धतावृत्तम्)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org