________________
२५६
श्रीदानोपदेशमाला (गा. ४७) तदाप्तफलका स्फूर्जद्रोषारुणितचक्षुषा । उत्क्षिप्य साप्यत व्योमतलं सलिलहस्तिना ॥ ९२ ।। रराज फलके लग्ना गगनाङ्गणसर्पिणी । प्लवङ्गप्रेयसीवासौ शाखिशाखाग्रशायिनी ॥ ९३ ॥ फलकेन समं व्योम्नः पतन्ती सा विधेर्वशात् । विद्याधरेण संगृह्य विमाने स्थापिता निजे ॥ ९४ ॥ ऊचे च सुभ्र! वैताढ्यभूधरे तारकाभिधः । अहमस्मि श्रियां पात्रं रथनूपुरनायकः ॥ ९५ ॥ अङ्गीकुरु भजन्तं मां मावमंस्थाः सुलोचने! । प्रसीद प्राप्य राज्यं च, खेचरीशेखरीभव ॥ ९६ ॥ तद्वचो वज्रपाताभं मत्वा सत्त्वानुगा सती । साह विद्याभृतां मुग्ध! कलङ्कयसि किं कुलम् ॥ ९७॥ नरकातिथिपाथेयां कीर्त्तिवल्लीकरेणुकाम् । स्वर्गापवर्गसंहीं, परस्त्रीलोलतां त्यज॥ ९८॥ खेचरो व्याकरोद्वार्धिव्यसनोद्धरणादहम् । तवोपकार्यतः स्वाङ्गसङ्गेनोज्जीवयाशु माम् ॥ ९९ ॥ साप्याह तत उद्धृत्य मामगाधे भवाम्बुधौ ।। पातयन् शीलविध्वंसात्कथं त्वमुपकार्यसि ॥ १० ॥ तदा विद्याधराधीश! मन्ये त्वामुपकारिणम् । यथाब्धे रक्षिताः प्राणाः, शीलं चेन्मे तथावसि ॥ १०१॥ मन्यसे यदि रागान्धः, कृतघ्नैकशिरोमणिम् । तदा प्रक्षिप्य मामब्धौ कृतकृत्योऽधिकं भव ॥ १०२॥ वरं वारिनिधौ पातः प्रवेशो वा हुताशने । शीलरत्नं तु नो भग्नमाजन्म परिपालितम् ॥ १०३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org