________________
२५७
वस्त्रदानविषये श्रीमृगाङ्ककथा इति तस्या महासत्या वच:पीयूषपानतः । प्रणष्टं विषयावेशगरलैस्तस्य चेतसः ॥ १०४ ॥ तस्याः पादौ स नत्वाख्याद्रक्षितो नरकादहम् । स्वस:! किमपि कार्य मे पुरो वद करोमि तत् ॥ १०५ ॥ सर्वं निवेद्य वृत्तं स्वं तदने सेत्यवोचत । भ्रातः! कुरु तथा यत्नं, यथा स्याच्छीलपालनम् ॥ १०६ ॥ परविद्यापहां विद्यामदृश्यीकरणाञ्जनम् । रूपान्यताकरीं चास्यै गुटिकां खेचरो ददौ ॥ १०७ ।। सुंसुमारपुरारामे तां विमुच्य महासतीम् । वन्दित्वा च ततो हृष्टस्तारकोऽगान्निजां पुरम् ॥ १०८ ॥ तया गुटिकया सापि रूपं निर्माय पौरुषम् । पुरे प्रविश्य कस्याश्चिद् वृद्धायाः सदनं ययौ ॥ १०९ ।। सुतत्वेन दृतः सोऽपि तया प्रोषितपुत्रया । यतश्चिन्तामणीरत्नं क्व प्राप्नोति न गौरवम् ॥ ११० ।। साहसाङ्काभिधां स्वस्य प्रथयंस्तरुणाग्रणीः ।। रूपेण च कलाभिश्च, पुरीजनमरञ्जयत् ॥ १११॥ वृद्धया स पणार्धेनाऽनीनयत्केकिपिच्छकान् । अन्यार्धेन च पञ्चापि, कुरुविन्दादिवर्णकान् ॥ ११२ ॥ ततः कलापिनां पिच्छै नाविच्छित्तिसंयुतम् ।। कियद्भिर्वासरैरेष व्यजनं विजने व्यधात् ॥ ११३ ।। तत्र चैकत्र नामाङ्क रूपं श्रीनरवर्मणः । चतुरङ्गचमूयुक्तां राजपाटीं च सोऽकरोत् ॥ ११४॥ प्राकारागारजैनेन्द्रविहारापणराजितम् । सोऽन्यत्राचित्रयत्तत्र, सुंसुमारपुरं पुरम् ॥ ११५ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org