SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ वस्त्रदानविषये श्रीमृगाङ्ककथा तच्छ्रुत्वा साप्यवक् जातविश्रम्भा भ्रातरापतम् । सार्थेशेन मृगाङ्केण पत्येह चलिता सह 11 2011 फलकेनाहमत्रागां भग्ने प्रवहणव्रजे । सत्यं च यदि मे बन्धुस्तदा मां वसतिं नय ॥ ८१ ॥ अङ्गीकृतेऽथ तद्वाक्ये प्रस्थाय सह तेन सा 1 निश्चितं स्वं पणं जीवमिव संगोप्य जग्मुषी ॥ ८२ ॥ ततः पद्मोऽपि तां पद्माननां पद्मावतीमभि । क्षुब्धोऽम्भोधिरिवानङ्गवायुनेति व्यचिन्तयत् ॥ ८३॥ एषा रम्भाथवा गौरी रमा वा यदिवा रतिः । नेदृशीरूपसंपत्तिर्मानवीषु विभाव्यते ॥ ८४ ॥ मन्ये स्मरोऽपि रूपेण जिग्ये तेनेन्द्रसूरपि । बालेयं यस्य सोत्कण्ठं कण्ठपीठे लुठत्यलम् ॥ ८५ ॥ ततस्तामवदत्पद्मस्त्वद्वियोगविषार्दितम् । स्वाङ्गाश्लेषसुधासेकान्मामुज्जीवय सुन्दरि ! ॥ ८६॥ इत्याकर्ण्य विहस्ता सा यावत्किमपि नाब्रवीत् । तावत्स्वं प्रकटीकृत्य बभाषे पोतदेवता ॥ ८७॥ सतीं कामयमानस्य स्वसारं प्रतिपद्य रे ! । यन्न हृत्ते द्विधा जज्ञे, स्फोटयिष्ये तदेतत् ॥ ८८ ॥ वचसोऽनन्तरं तस्या एरण्डफलवत्ततः 1 बिभेद वहनं वेगात्समं पद्ममनोरथैः ॥ ८९ ॥ पुण्यात् पद्मावती दारुखण्डमाप्योर्मिलोलिता । बभ्रामाम्भोनिधौ जीव इव सांसारिको भवे ॥ ९० ॥ देव्यानुकूलयाप्येषा नोद्दध्रे जलधेर्जलात् । शक्या हि नान्यथा कर्तुं गतिः केनापि कर्मणाम् ॥ ९१ ॥ Jain Education International २५५ For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy