________________
२५४
श्रीदानोपदेशमाला (गा. ४७) वचो देहं मनः पुंसां त्रयमप्यतिकर्कशम् । हत दैवेन केनापि, न विद्मोऽशैरकारि कैः ॥ ६८॥ तत्तादृग् प्रेम ता लीलाश्छेकोक्तीश्चाविभाव्य ताः । पापोऽयमनघां शून्यारण्ये मां मुक्तवान् कथम् ॥ ६९ ॥ पूर्वं रागं ततस्तापं तन्वन्तो रविवन्नराः । नूनं दूरस्थिता वन्द्या नावतार्याश्च दृक्पथम् ॥ ७० ॥ प्रतिज्ञां मे तु दिदृक्षुश्चेद् रे मन्दमते! तदा । उपायरहिते शून्येऽरण्ये किं मुक्तवानसि ॥ ७१॥ शोचितेनाथ किं वा श्राक् प्रोक्तं स्वस्य प्रियस्य च । साधयाम्यनुकूलश्चेदधुना स्याद्विधिर्मम ॥ ७२ ।। ततश्चीवरखण्डं सा निजज्ञापनहेतवे । गृहीत्वा शाखिशाखाग्रे बबन्ध ध्वजमुच्चकैः ॥ ७३ ।। साथ लेपमयीं कृत्वा, प्रतिमामृषभप्रभोः ।। त्रिसन्ध्यं पूजयामास, कमलैरमलैरलम् ॥ ७४ ॥ पद्मनामाथ सार्थेशो द्वीपान् दृष्ट्वा सहस्रशः । राक्षसद्वीपमायातस्तामपश्यत्पताकिकाम् ॥ ७५ ।। बोहित्थादवतीर्यासौ साश्चर्यो वारिधेस्तटे । अनेकलक्षणोपेतामद्राक्षीत्पदपद्धतिम् ॥ ७६॥ तामेव वर्णयंस्तस्याश्चानुसारात्पुरो व्रजन् । रत्नशैलगुहायां सोऽद्राक्षीदेकां मृगेक्षणाम् ॥ ७७ ॥ जिनार्चामर्चयन्तीं तां प्रतीक्ष्य स सुधीः क्षणम् । ऊचे कुतस्त्वमायाता किं वा ते कुलमुज्ज्वलम् ॥ ७८ ॥ नाहं विरुद्धकारी ते विश्वासं कुरु मे स्वसः! । भ्रातरीव मयि प्रीतिस्फीतिमातनु चानघे ॥ ७९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org