________________
वस्त्रदानविषये श्रीमृगाङ्ककथा
२५३ अथ पद्मावती तत्र हंससारसकूजितैः । बन्दिवृन्दाननोद्भूतैरिवारावैरजागरीत् ॥ ५६ ।। न प्रियं न परीवारं, पश्यन्ती तत्र केवलम् । स्वं विलोक्यालसाक्षी सा, मुमूर्छ च मुहुर्मुहुः ॥ ५७ ॥ सा पुनः प्राप्य चैतन्यं, पवनैरतिशीतलैः ।। स्मारं स्मारं स्मराकारं, जीवेशं व्यलपत्तमाम् ॥ ५८॥ एकाकिनीमनाथां मां परित्यज्याजने वने । क्व गतोऽसि हहा नाथ! नेदृशं युज्यते सताम् ॥ ५९॥ नूनं जलस्थलव्योमदेवीभिर्वल्लभो मम । सौभाग्यसरसीहंसो, लुब्धाभिरधुना हृतः ॥ ६० ॥ शून्ये वासो वियोगश्च बन्धुभिर्दयितेन मे । हा हताश! त्वया दैव! समकालमदायि किम् ॥ ६१॥ ततः पद्मावती बाढं खेदमेदुरमानसा । गता जलनिधेस्तीरं वहनानां दिदृक्षया ॥ ६२ ॥ पोताननीरीक्ष्य सा तत्रोपालेभे सरिदीश्वरम् । हृत्वा मम प्रियं गर्जन् रे निर्लज्ज! न लजसे ॥ ६३॥ एवं विलापव्यापारविधुरा मदिरेक्षणा । निजचेलाञ्चले ग्रन्थिं तदा सोत्कण्ठमैक्षत ॥ ६४ ॥ स्मेराम्भोरुहपत्राक्ष्या, ग्रन्थावुन्मुद्रिते तया । सपणं लिखितं पत्रं समालोक्येति वाचितम् ॥ ६५॥ एतैर्वराटकैः स्वस्मा आहाराभरणादिकम् । विचक्षणे! त्वया कार्यं स्मृत्वा पूर्वोदितं वचः ॥ ६६ ॥ ततस्तोषविषादाभ्यामाकुला विममर्श सा । एतावन्ति दिनानीदं, वचोऽधार्यमुना कथम् ॥ ६७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org