________________
२५२
श्रीदानोपदेशमाला (गा. ४७) रङ्गन्नारङ्गपुन्नागनागपूगलताञ्चितम् ।। कदम्बजम्बुजम्बीरनिकुरुम्बमनोहरम् ॥ ४४ ॥ ईदृगुद्यानमालोक्य परिश्रान्तप्रियायुतः । स्वयंप्रभासुतः शीते विश्रान्तः कदलीगृहे ॥४५॥ कुलकम् ॥ आनाय्य प्राज्यभोज्यानि, निजप्रवहणादयम् । प्रियापरिकरोपेतस्तत्रैव बुभुजेतराम् ॥ ४६॥ विरचय्याद्भुतां शय्यां कमलानामलं दलैः । उवास तां निशां तत्र मृगाङ्कः प्रियया सह ॥ ४७॥ स स्मृत्वा तद्वचो बद्ध्वा पणं चैकं तदञ्चले । सुप्तां तत्याज तां कान्तां, ही क्रोधस्य दुरन्तता ॥ ४८॥ दूरासन्नस्थितं भृत्यवर्गमुत्थाप्य वेगतः। सोऽवोचदुच्चकैर्दम्भाद् भो मां रक्षत रक्षत ॥ ४९ ।। राक्षसो राक्षसद्वीपवासी जग्ध्वा मम प्रियाम् । पश्चाद् गिलितुकामो मां रयादायाति पृष्ठतः॥ ५० ॥ परिच्छदोऽपि बुद्धः सन्, किमिदं किमिदं ब्रुवन् । तस्यैव मार्गसंलग्नो, वेगेन वहनेष्वगात् ॥ ५१॥ स कान्ताघातवृत्तान्तमुक्त्वा वाहनवासिनाम् । पोतानचालयत् पापः स्थैर्यं हि द्रोहिणां कुतः ॥ ५२ ॥ स दुष्टः कृतकृत्यं स्वं मन्वानश्छद्मनाधिकम् । विललाप गलद्बाष्पजलाविलविलोचनः ॥ ५३॥ हा चन्द्रवदने! देवि! गजगामिनि! भामिनि! । क्व मुक्त्वा मन्दभाग्यं मां गतासि मृगलोचने! ॥ ५४॥ श्रेष्ठिभूविलपन्नेवं मित्रैः सम्बोध्य भोजितः।। ततो निश्चिन्तचित्तोऽसौ, सिंहलाभिमुखं ययौ॥ ५५ ॥ *पणं पत्रं तदञ्चले इति संगतं भाति, दृश्यताम् शोकः-६५ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org