________________
२५१
वस्त्रदानविषये श्रीमृगाङ्ककथा मृत्युर्वा जीवितव्यं वा दु:खं वा यदिवा सुखम् । यद् भावि तद् भवेदीश! प्रयास्यामि समं त्वया ॥ ३२ ॥ आगच्छेति प्रतिश्रुत्य, सामग्री प्रविधाय च । कलत्रमित्रसंयुक्तो, मृगाङ्कः प्रस्थितो मुदा ॥ ३३ ॥ यात्रामूहुर्तवेलायां मङ्गलार्थं स्वयंप्रभा ।। मृगाङ्कस्याकरोत्तोषाद् भाले श्रीखण्डपुण्ड्रकम् ॥ ३४॥ अथ तीरगतोऽद्राक्षील्लोलकल्लोलमालितम् । श्रेष्ठिसूः सरितामीशं संपदामिव मन्दिरम् ॥ ३५ ॥ डिण्डीरलहरीदम्भाद् दधिदूर्वोरुमङ्गलम् । । यात्रायियासोस्तस्यासौ व्यनक्तीव महोदधिः ॥ ३६॥ आरुह्य सहसा पोतान्, प्रेरयाञ्चकृवानयम् । वेगेन विहगस्वामिसमीरजयकारिणा ॥ ३७॥ द्वीपाननेकशः शैलान् वेलाकूलानि च क्षणात् । उल्लङ्घ्य वहनतातो राक्षसद्वीपमासदत् ॥ ३८॥ तत्रावष्टभ्य बोहित्थान् पानीयेन्धनहेतवे ।। उत्ततार तरीलोक: कोलाहलपरो रयात् ॥ ३९ ॥ पद्मावती प्रियं प्राह, वनराजिविराजितम् । नानाश्चर्यमयं द्वीपममुं दर्शय नाथ! मे ॥ ४० ॥ तच्छ्रुत्वानन्दरोमाञ्चचञ्चुराङ्गस्तया सह । मृगाङ्कोऽवातरत्तर्या योगीव भवसागरात् ॥ ४१ ॥ सरसीसरिदारामशैलादिविपुलां श्रियम् । दर्शयन् दर्शयन् पत्न्यै स द्वीपं व्यचरच्चिरम् ॥ ४२ ॥ एकत्र कदलीतालकृतमालतमालकैः । मालतीव लाम्रालीलवलीभिश्च संकुलम् ॥ ४३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org