SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ वस्त्रदानविषये श्रीमृगाङ्ककथा “पद्मावतीमृगाङ्काभ्यां समाभ्यां गुणसम्पदा । अभूत्परस्परं प्रीतिः कौमुदीकुमुदेशवत् ॥ ९॥ अन्योऽन्यं पददानानि सविश्रम्भवचांसि च । खाद्यं स्वाद्यं तथा पेयं कुर्वाणौ पठतः सुखम् ॥ १०॥ गृहागतायाः खाद्यर्थं, पद्मावत्याः कृते पिता । वराटकाशीतिमानं पणं प्रेषितवानथ ॥ ११॥ खाद्यर्थम् - भोज्यार्थम् । मृगाङ्कोऽपि तमादाय तस्या विश्रम्भतः स्वयम् गत्वापणे पणेनेदं खाद्यं क्रीत्वा च भुक्तवान् ॥ १२॥ आगतायां पुनस्तस्यां तेनाभाणि स्वचेष्टितम् । साप्याह न त्वया चैतत्कार्यं हारि व्यरच्यत ॥ १३॥ येऽनालोच्य स्वकार्यान्तं प्रवर्तन्ते यथा तथा 1 , I सतां संसदि ते हास्यं लभन्ते नात्र संशयः ॥ १४ ॥ तदा कपर्दैस्तैः स्वस्मै वस्त्राभरणसम्पदः अकरिष्यमहं चेन्मेऽभविष्यन् शयगा इमे ॥ १५ ॥ स्नेहस्यानुचितं तस्या असंभाव्यमिदं वचः 1 श्रुत्वा स्वयंप्रभासूनुः, खेदमेदस्वितामयात् ॥ १६॥ तद्वचोऽनुस्मरन्नेष कियन्तं कालमत्यगात् । साधवः साधयन्त्यर्थं यस्मान्मौनं समाश्रिताः ॥ १७॥ कियत्यपि गते काले, पद्मावत्या निजं वचः 1 व्यस्मारि यद्वा बालानां चिरं संस्मरणं कुतः उक्तं च-उच्चावयाणि अइणिठुराणि, मसिणाणि णिययभणियाणि । महिलायणे हलाविय, कित्तिय मित्ताणि सुमरंति ॥ १९॥ १८॥ * एष प्रयोगश्चिन्त्यः, षष्ठ्यन्तः समुचितो भाति । Jain Education International For Personal & Private Use Only २४९ www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy