________________
२४८
श्रीदानोपदेशमाला (गा. ४७)
वस्त्रदानप्ररूपिकां सदृष्टान्तां गाथामाहस जयउ जए मयंको चउविहसंघस्स वच्छदाणाओ । जसजयढक्का अज्जवि अणवज्जा वज्जए जस्स ॥४७॥
व्याख्या-स मृगाङ्कः-श्रेष्ठिपुत्रो, जगति - पृथिव्यां जयतुसर्वोत्कर्षेण वर्तताम्, यस्य - मृगाङ्कस्य, चतुर्विधसंघस्य - साधु-साध्वीश्रावक-श्राविकारूपस्य, वस्त्रदानादद्यापि इदानीमपि यशोजयढक्काकीर्त्तिविजयपटहोऽनवद्या - निर्दूषणा, वाद्यति - शब्दायत इति गाथार्थः ॥ भावार्थ: कथानकादवसेयस्तच्चेदम्विकसत्कमलाकीर्णा सच्चक्रैरुपशोभिता ।
वाराणसी पुरी ख्याता, जाह्नवीवास्ति भारते ॥ १॥ यस्यामुत्तुङ्गचैत्यालीसौवर्णकलशच्छलात् ।
1
मन्ये प्रद्योतनोऽद्यापि तनुते जिनसेवनम् ॥ २॥ तत्राभूद्रूपमकरध्वजो राण्मकरध्वजः यद्यशोलवरूपोऽपि शशी शुभ्रयति जगत् ॥ ३॥ नैकप्रकारमाणिक्यकोटिस्वामी कुबेरवत् ।
श्रेष्ठी कुसुमसाराख्यः प्रख्यातो नागरेष्वभूत् ॥ ४ ॥ तस्य स्वयंप्रभानाम्न्या, सधर्मिण्या कलानिधिः । मृगाङ्कः सुषुवे सूनुर्मृगाङ्क इव पूर्वया ॥ ५॥ पित्रा पुत्रोऽष्टमे वर्षे नाम्नो ज्ञानमहोदधेः । उपाध्यायस्य पार्श्वेऽसावध्येतुं प्रैषि सोत्सवम् ॥ ६॥ इतश्च तस्मिन्नगरे विद्यते धनशालिनः । धनञ्जयस्य लावण्यपद्मा पद्मावती कनी ॥ ७॥ तस्मा एव कलाचार्यवर्यायाध्येतुमर्पिता । पितृभ्यां सोत्सवं सापि, मृगाङ्काधीतिवासरे ॥ ८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org