SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ दाने वस्त्रदानस्य महत्त्वम् । इति जना धनदेववणिप्रियाचरितमेतदवेत्य महाद्भुतम् । यतिपतेः प्रवरासनदानकं वितरतेह यथा तरतापदम् ॥४९॥ (द्रुतविलम्बितम्) ॥ इति श्रीरुद्रपल्लीयगच्छशृङ्गारहार श्रीसंघतिलकसूरिशष्य श्रीदेवेन्द्रसूरिविरचितायां श्रीदानोपदेशमालावृत्तौ आसनदानविषये सज्ञातिप्रियाकथा समाप्ता ॥ आसनदानवैषयिकं सज्ञातिप्रियानिदर्शनमुक्त्वा चतुर्थं वस्त्रदानस्वरूपं गाथायुगलेनाह साहुणिमित्तं कीयं पामिच्चं अभिहडं तहा वुणियं । अण्णेसिं परिगहियं एरिसदोसेहिं परिचत्तं ॥ ४५ ॥ सिसिरकरकिरणधवलं णियपरिभोगेण अमलियमखंडं । माणसजलसुद्धमणो वत्थं पत्तेसु वियरिज्ज ॥ ४६ ॥ व्याख्या - साधुनिमित्तं मुनिकृते इति सर्वत्र सम्बन्धः । तत्र क्रीतं - द्रव्येण गृहीतम्, प्रामित्यमन्यवस्तुपरावृत्योपात्तम्, अभ्याहृतं-परग्रामादानीतम्, तथा तेनैव प्रकारेण व्यूतं स्वयं निर्मितम् । अन्येभ्यः परिगृहीतंपरेभ्यः सकाशादुद्धारेण गृहीतम्, अत ईदृक्षदोषैः परित्यक्तं-विमुक्तं वस्त्रैषणायाम् जणतयट्ठाकीयं णेय चुयं णेय गहियमण्णेसिं । आहड- पामिच्वं वज्जिऊण तं कप्पए वत्थं 113 11 २४७ सिसिरित्ति - शिशिरकरश्चन्द्रस्तस्य ये किरणा: करास्तद्वद्धवलंनिर्मलम्, निजपरिभोगेनामलितं स्वपरिभुक्तवस्त्रपरिभोगान्मुनीनामा शातनासंभवत्वादतो गृहस्थेनाव्यावृतम्, अखण्डं-सम्पूर्णम्, वस्त्रंवसनम्, पात्रेषु सुसाधुषु० मानसजलशुद्धमना- मानससरः सलिलनिर्मलस्वान्तोऽर्थापत्त्या विवेकवान् प्राणी वितरेद् - दद्यादिति गाथाद्वयार्थः ॥ Jain Education International - For Personal & Private Use Only - www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy