________________
२४६
श्रीदानोपदेशमाला (गा. ४४)
तदा तेन धनेनोच्चैर्धनदेवो धनेश्वरी । स्वनामसत्यतामेतौ निन्यतुः पृथिवीतले ॥ ३७॥ धनदेवः सदा सूरेरुपकारं निजे हृदि। योगीव परमब्रह्म स्मरन् समयमत्यगात् ॥ ३८॥ सोऽन्यदा पाटलीपुत्रे विहरन्तं मुनीश्वरम् । शकटालसुतं श्रुत्वा, तन्नमस्कृतये ययौ ॥ ३९ ॥ तत्र सूरीश्वरं नत्वा, मत्वा स्वं जन्म सार्थकम् । आनन्दामृतपाथोधौ स निमग्न इवाजनि ॥ ४० ॥ व्यजिज्ञपच्च हे स्वामिन् ! दारिद्र्यक्षारसागरम् । तव प्रसादपोतेन, द्रुतं लङ्कितवानहम् ॥ ४१ ॥ तस्माद्यतिपते! प्रत्युपकारशतकोटिभिः । त्वत्तोऽहं नानृणीभावं, यामि पित्रोरिवाङ्गजः ॥ ४२ ।। अतस्त्वमेव मे स्वामी, त्वमेव हि पिता मम । त्वमेव मे परो बन्धुस्त्वमेव च गुरुर्मम ॥ ४३ ॥ तत्स्थूलभद्रसूरीन्द्र! दयामय! दयां मयि । विधाय करणीयं मे समादिश करोमि किम् ॥ ४४ ॥ तेनेत्युक्ते प्रभुः प्राह भद्र! भद्रैकसाधकम् । जिनेन्द्रभाषितं धर्ममङ्गीकुरु कृपामयम् ॥ ४५ ॥ यस्मिन्नाराधिते पुंसामैहिकामुष्मिकश्रियः । सम्पद्यन्ते विपद्यन्ते विपदो निखिला अपि ॥ ४६॥
ओमित्युक्त्वा प्रभुं नत्वा, गत्वा च निजमन्दिरम् । धनदेवोऽर्हतां धर्मं दयितामप्यशिक्षयत् ॥ ४७॥ तौ दम्पती निजं वित्तं, सप्तक्षेत्र्यां निरन्तरम् । उप्त्वा चित्वा फलं चायुःक्षये स्व:पदमापतुः ॥ ४८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org