________________
आसनदानविषये सज्ञातिप्रियाकथा विचिन्त्येति निजे चित्ते स मे जीवितवल्लभः । विभवोपार्जनायेतः प्रतस्थे विषयान्तरम् ॥ २५ ॥ तन्निशम्य श्रुतज्ञानोपयोगेन मुनीश्वरः । तद्गृहे स्तम्भकाधस्ताद्विदाञ्चक्रे महानिधिम् ॥ २६ ॥ ततो व्याख्यामिषात् स्वामी, करपल्लवसंज्ञया । भूयो भूयो निधिस्तम्भं दर्शयंस्तामदोऽवदत् ॥ २७॥ अत्रेहक् तत्र तादृशं पश्य कीदृगजायत । स्थूलभद्रो जगादैवं सम्प्राप्तो मित्रवेश्मनि ॥ २८॥ वारंवारमिदं पद्यं सनिर्वेदं सुहृत्स्त्रियः। पुरो निगद्य सूरीन्द्रोऽपरत्र विहतिं व्यधात् ॥ २९ ॥ अथानुपार्जितद्रव्यो धनदेवः स्वमन्दिरे । समियाय यतो भाग्ये क्षीणे स्यादर्जना कुतः ॥ ३० ॥ एकदा स्थूलभद्रस्य सदनागमनं स्त्रिया। कान्ताग्रेऽकथि सोप्यूचे किमुक्तं तेन सूरिणा ॥ ३१॥ साप्यभाषत हे नाथ! स मुनिः करसंज्ञया । स्तम्भं प्रदर्शयन् वारंवारं पद्यमदोऽवदत् ॥ ३२ ॥ अत्रेदृक् तत्र तादृक्षं, पश्य कीदृगजायत । स्थूलभद्रो जगादैवं संप्राप्तो मित्रवेश्मनि ॥ ३३ ॥ तच्छ्रुत्वा धनदेवोऽपि चेतसीति व्यचिन्तयत् । यत्तस्य तादृशज्ञानवतश्चेष्टा वृथा न हि ॥ ३४॥ स्तम्भमुद्दिश्य यद् हस्ताभिनयं विदधे विभुः । तदवश्यममुष्याधः किमपि स्वं भविष्यति ॥ ३५ ॥ निश्चित्येत्यखनद्यावत्स्तम्भदेशं स नैगमः । तावदाविरभूत्तत्र स्वभाग्यमिव सेवधिः ॥ ३६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org