________________
२४४
श्रीदानोपदेशमाला (गा. ४४) कैश्चिच्च वाद्यमानोद्यदातोद्यश्रुतिहर्षुलः । भट्टथट्टमुखोल्लासिवरेण्यबिरुदावलिः ॥ १३ ॥ सादरं श्राविकावर्गगीयमानगुणोदयः ।। अर्हतां चैत्यबिम्बानि, वन्दमानः पदे पदे ॥ १४ ॥ एकातपत्रं श्रीजैनशासनं च प्रकाशयन् । धनदेववयस्यस्य वेश्मनि प्राविशत्प्रभुः ॥ १५ ॥ पञ्चभिः कुलकम् ।। सूरिं निजपतेर्मित्रं, कल्पद्रुमिव जङ्गमम् । गृहे प्रवेशं कुर्वाणमीक्षाञ्चक्रे धनेश्वरी ॥ १६ ।। उत्थाय संमुखीभूय हर्षोत्फुल्लविलोचना । बाला श्रीस्थूलभद्राय, भद्रासनमदात्स्वयम् ॥ १७॥ भगवांश्च रजोहत्या, प्रतिलिख्य प्रयत्नतः । तदासनमलञ्चक्रे, पूर्वाचलमिवार्यमा ॥ १८ ॥ शकटालमहामात्यनन्दनं जननन्दनम् । अभिवन्द्य यथास्थानमुपाविक्षद् धनेश्वरी ॥ १९ ॥ स्थूलभद्रमुनीन्द्रोऽपि, विच्छायवदनाम्बुजाम् । वयस्यप्रेयसीं वीक्ष्य, प्रोचे मधुकिरा गिरा ॥ २० ॥ भद्रे! सोऽस्माकमाबालकालमित्रं भवत्पतिः । गृहेऽपि नेक्ष्यते केन हेतुना तन्निवेदय ॥ २१॥ सा प्राह भगवन्! यच्च गृहे यच्च बहिर्धनं । अभूत्तदखिलं युष्पन्मित्राभाग्योदयाद् गतम् ॥ २२ ॥ ततः स धनहीनः संस्तत्यजे स्वजनैरपि । स्वच्छवारिविनिर्मुक्तस्तटाक इव पक्षिभिः ॥ २३ ॥ स तु मानधनो बन्धूनपि नायाचतात्मनः । वरं मृत्युनं तु कृता प्रार्थनान्यस्य पार्श्वतः ॥ २४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org