________________
आसनदानविषये सज्ञातिप्रियाकथा
२४३ तस्यामासीदसीमश्रीर्धनदेवाभिधो वणिक् । तस्य च प्रेयसी प्राणेभ्योऽप्यभीष्टा धनेश्वरी ॥ २॥ तस्या नगर्या उद्यानेऽपरेधुः साधुभिर्वृताः श्रीस्थूलभद्रसूरीन्द्रा विहरन्तः समैयरुः ॥ २ ॥ तेषामागमनं श्रुत्वा श्रीसंघः सकलोऽपि हि । रोमाञ्चकञ्चुकीभूतः श्रीसूरीन् वन्दितुं ययौ ॥ ४॥ नत्वोपविष्टे श्रीसंघे स्थूलभद्रमुनीश्वरः । दिदेश देशनां क्लेशनाशिनी धर्मदेशिनीम् ॥ ५॥ धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदो, राज्यार्थिष्वपि राज्यदः किमपरं पुत्रार्थिनां पुत्रदः । सौभाग्यादिषु तत्प्रदः किमथवा नानाविकल्पैर्नृणाम् , तत्किं यन्न तनोति यन्न कुरुते स्वर्गापवर्गप्रदः ॥ ६॥ (शार्दूलविक्रीडितम्) सूरिवक्त्राम्बुजोद्भूतदेशनामधुपानतः । परमं प्राप सौहित्यं संघमानसषट्पदः ॥ ७॥ तदा प्रभुः निजं मित्रं, धनदेवं वणिग्वरम् । नमस्कर्तुमनायातं, विलोक्येति व्यचिन्तयत् ॥ ८॥ स शैशववयस्यो मे सदने विद्यते न वा । समीयुष्यपि पूर्लोके नायातः स्नेहलोऽपि यत् ॥ ९॥ तद् व्रजामि निरीहोऽपि, धर्मोपकृतिहेतवे । तदीयमन्दिरे यस्मादनुग्राह्यः सुहृद् भवेत् ॥ १० ॥ ततः स भगवान् स्थूलभद्रः संघसमन्वितः। कैश्चिद्विवेकिभिर्भक्त्या, दत्तहस्तावलम्बनः ॥ ११ ॥ कैश्चिदातपभीत्येव धार्यमाणशिरोऽशुकः । कैश्चित्कौतूहलाद्दर्श्यमानाग्रलकुटारसः ॥ १२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org