________________
२४२
श्रीदानोपदेशमाला (गा. ४४) पानदानवैषयिकं पुलिन्दमिथुनदृष्टान्तमुक्त्वा तृतीयमासनदानस्वरूपं प्रकटयन्नाहसट्टाणिम्मियममलं जीवुवघायाइदूसणविमुक्कं । अज्झुसिरमकंपमाणं वियरिज्जा आसणं जइणो॥ ४२॥
व्याख्या-स्वार्थम्-आत्मार्थम्, गृहस्थेन निर्मितं-कृतम्, अन्यथा यतीनामकल्प्यत्वात्, अमलं-पङ्कानाविलम्, जीवोपघातादिदूषणविमुक्तंस्वभावशुष्ककाष्ठमयमत एव हिंसादिदोषरहितम्, अशुषिरं-शुषिरे ह्याक्रम्यमाणे तदन्तर्गतजन्तुसंघातविघातः स्यादत एव निश्छिद्रम् , अकम्पमानं-अनिश्चलस्याधस्ताजन्तुप्रवेशे तत्प्राणितप्रणाशोऽ त एव निश्चलम् , एवंविधमासनं-सिंहासनपट्टकादि, यतये-महर्षये, वितरेद्दद्यादिति गाथार्थः ।। आसनप्रदानेन किं फलं भवतीति गाथायुगलेनाहसिरिथूलभद्दमुणिवरसमागमे आसणस्स दाणाओ। आबालकाललालियसुरुद्ददारिद्दमुद्दावि ॥ ४३॥ धणवंताणं मज्झे सण्णाइपिया सिरोमणी जाया । जं महियलंमि तं खलु अहो अहो दाणमाहप्पं ॥ ४४॥
व्याख्या-श्रीस्थूलभद्रमुनिवरसमागमे आसनस्य दानादाबालकाललालितसुरौद्रदारिद्र्यमुद्राऽपि यत्सज्ञातिप्रिया-मित्रकलत्रं महीतले धनवतां मध्ये शिरोमणिर्जाता-बभूव। तत् खलु-निश्चितमहो अहो दानमाहात्म्यमिति गाथायुगार्थः ॥ भावार्थः कथया प्रतन्यते तथाहिअस्ति श्रीभरतक्षेत्रे, श्रीश्रावस्तीमहापुरी । अस्यामाकर्ण्यते बन्धशब्दो वेण्यां न देहिषु ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org