________________
पानदानविषये पुलिन्दमिथुनदृष्टान्तः
२४१ द्वासप्ततिकलायुक्तौ, नवयौवनशालिनौ । तावुभौ तनयौ वीक्ष्य, राजा चेतस्यचिन्तयत् ॥ ७७॥ कन्याभिः सह धन्याभिर्भूमीन्द्रकुलजन्मभिः । ममाधुनानयोः कर्तुमुचितं पाणिपीडनम् ॥ ७८ ॥ ततो राजन्यकन्याभिः समं राजा तनूजयोः । विवाहं कारयाञ्चक्रे महोत्सवपुरःसरम् ॥ ७९ ॥ सदा ताभिः समं भोगान्, भुञ्जानौ भूपजन्मनौ । अत्यवाहयतां कालं दोगन्दुकसुराविव ॥ ८०॥ । अन्यदा मेदिनीजानिः संसारोद्विग्नमानसः । निवेश्य राज्यभार स्वं सुते चन्द्रयशोऽभिधे ॥ ८१॥ युवराजपदं सूर्ययशस्यपि ततः स्वयम् । सुस्थिताचार्यपादाब्जमूले दीक्षामुपाददे ॥ ८२॥ युग्मम् ॥ तावुभावपि भूपालपुत्रौ सर्वामपि प्रजाम् । पालयामासतुर्यायवृत्त्यैकनगरीमिव ॥ ८३ ॥ क्रमात्तावपि वैराग्याद्राज्यं दत्त्वा स्वसूनवे । युगन्धरगुरोः पार्श्वे जगृहाते व्रतश्रियम् ॥ ८४॥ निरतीचारचारित्रं, पवित्रं प्रतिपाल्य तौ । घातिकर्मक्षयाज्ज्ञानं, श्रीकेवलमवापतुः ॥ ८५ ॥ प्रबोध्य सुचिरं लोकान् दग्धरज्जुनिभानि च । शेषकर्माणि निर्मूल्य, राजर्षी निर्वृतिं गतौ ॥ ८६॥ इत्थं पुलिन्दमिथुनस्य चरित्रमेतद्, आकर्ण्य कर्णयुगलामृतपारणाभम् । भव्याः! प्रदत्त सुविशुद्धजलस्य दानं, साधुभ्य एव यदि सिद्धिसुखाभिलाषः ॥ ८७॥ (वसन्ततिलका) ॥ इति श्रीरुद्रपल्लीयगच्छशृङ्गारहारश्रीसंघतिलकसूरिशिष्यश्रीदेवेन्द्रसूरिविरचितायां
श्रीदानोपदेशमालावृत्तौ पानदानविषये पुलिन्दमिथुनकथा समाप्ता ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org